________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा ।
२०९ निशीथचूर्णिकारोक्तदशमोद्देशकचूर्णिवचनाद भाद्रपदसुदिचतुर्थ्यामेव पश्चादपि श्रीपर्युषणापर्वाभूत् । तत्परम्परया च सांप्रतमापि चतुर्थ्या क्रियमाणमस्ति-इति सम्यक् समाधानम् ॥
अथ श्रीकालिकाचार्याः सुखेन संयम पालयन्तस्तत्र तिष्ठन्ति, परं कालवशेन शिष्याः प्रमादिनो जाताः । गुरुभिः बहुप्रेरिता अपि गलितगाव इव न क्रियानुष्ठानादिकं कुर्वन्ति । ततः श्रीकालिकाचार्याः शय्यातरश्रावकस्य सवीं वाती कथयित्वा शिष्यान् सुप्तानेव मुक्त्वा स्वयमेकाकिन एव स्वर्णपुरे नगरे सागरचन्द्राचार्यस्य निजपौत्रस्य प्रशिष्यस्योपाश्रये गत्वैकदेशं मार्गयित्वा तस्थुः । परं न केनापि उपलक्षिताः । प्रभाते सागरचन्द्रेण समाग्रतो विशेषतो नानारागालापेन मधुरध्वनिना महताऽऽडम्वरेण व्याख्यानं कृत्वा पृष्टम्-अहो वृद्ध ! कथय मया कीदशं सभारञ्जन(क) व्याख्यानं कृतम् । ततः कालिकाचार्यैः प्रोक्तम-भव्यं कृतम् । ततः सागरचन्द्रेण साहङ्कारेण प्रोक्तम्-अहो वृद्ध ! तब कोऽपि सिद्धान्ते यदि संदेहो भवेत् तदा पृच्छ । तदा कालिकाचार्यैः प्रोक्तम्-धर्म श्रद्दधानैरपि तदगर्वोत्तारणार्थम्-धर्मोऽस्ति किं वा नास्ति -[इति पृष्टम् ] । तेनोक्तम्-धर्मोऽस्ति । कालिकाचार्यः प्रोक्तम्-धर्मो नास्ति । अत्र द्वयोरपि महान् तर्कवादो जातः । धर्मस्थापनोत्थापनयोरनेकशो युक्तयः सन्ति, ताः तार्किकैः स्वयं वाच्याः । मया ग्रन्थगौरवभिया न लिखिताः । [ अत्र स्थाने बृहत्खरतरगच्छीयसाधुभिः परस्परं तर्कवादो विधीयते, कृते श्रुते च तस्मिन् वर्षे यावत् परमश्रेयो भवति, इति प्रवर्त्तमानपरम्परा दृश्यते ] । तथाकृते यादे श्रीकालिकाचायः सागरचन्द्रो जितः। ततस्तेन ज्ञातम्-नायं वृद्धः सामान्यः, किन्तु कोऽपि सातिशयी वर्तते ।
इतश्च पृष्ठतः प्रमादिनः शिष्याः दिनोदये सुप्तोत्थिताः स्वगुरुमपश्यन्तो विलक्षणाः सन्तः परस्परं पृच्छन्ति । तदवसरे शय्यातरश्रावकेणोक्तम्-रे कुशिष्याः यूयं गुरुशुद्धिमपि न जानिथ ! तदात्याग्रहेण पृष्ठेन शय्यातरश्रावकेण प्रोक्तम्-गुरुवः सागरचन्द्रपा स्वर्णपुयीं गताः। ततः सर्वेऽपि शिष्याः संघाटकत्रयं कृत्वा स्वर्णपुरं प्रतिचलिताः, पथि लोका:पृच्छति-। क श्रीकालिकाचार्यः । पृष्ठगा वदन्ति–अग्रे, अग्रगा वदन्ति-पृष्ठे समागच्छन्ति । एवं ते तत्र प्राप्ताः । सागरचन्द्रोऽपि गुर्वागमं श्रुत्वा सम्मुखं चलितः, पृष्टं च-क गुरवः । तैरुक्तम्-ते तु तव पार्वे पूर्वमागताः सन्ति । ततो ज्ञातम्-हुं ते एव । ततः सर्वशिष्यै सागरचन्द्रेण तत्रागत्य वन्दिताः क्षामिताश्च । अत्र सर्वेऽपि सुखेन सयम पालयन्तस्तिष्ठन्ति ।।
अथ तदवसरे श्रीसीमन्धरस्वामिपाचें गत्वा निगोदविचारान् श्रुत्वा प्रोवाच-हे स्वामिन् ! एतादृशं निगोदविचारं कोऽपि भरतक्षेत्रे जानाति ! । भगवता प्रोक्तम्-भरतक्षेत्रे प्रतिष्ठानुपुरे कालिकाचार्यः । तत इन्द्रो ब्राह्मणरूपं कृत्वाऽगत्य पृच्छति स्म--हे भगवन् ! निगोदविचारं वदत । गुरुभिः प्रोक्तम् -
गोला य असंखिज्जा, असंखनिग्गोयओ हबइ गोलो ।
इकिकम्मि निगोए, अणंतजीवा मुणेयन्वा ॥३४॥ - इत्यादिसूक्ष्मविचारगहनं श्रुत्वेन्द्रो हर्ष प्राप्य हस्तं दर्शितवान्-हे भगवन् ! ममायुः कियदस्ति ? । स्तोकं स्यात् तदा मरणं साधयामि । ततो गुरुभिः विलोकितम्-वर्षशतात् सहस्राल्लक्षात् कोटितोऽप्यधिकम् । ततो सागरोपमस्वरूपं दृष्ट्वा उक्तम्-हे इन्द्र ! धर्मलाभोऽस्तु । तत इन्द्रः प्रकटीभूय दशदिश उद्योतयन् वन्दित्वाऽस्तवीत् । हे पूज्य ! सीमन्धरस्वामिना त्वं निगोदविचारपारगः कथितः, स प्रत्यक्षं दृष्टः, इत्युक्त्वा गच्छन् गुरुणोक्तः-गोचरीगताः शिष्या आगच्छन्ति तावत् तिष्ठ, तेऽपि त्वां सहर्ष पश्यन्ति । इन्द्रेणोक्तम्-मद्रूपमोहिता मा निदानं करिष्यन्ति । उपाश्रयद्वारं परावृत्य देवलोक
For Private And Personal Use Only