________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२००
श्रीसमय सुन्दरगणिविरचिता
तस्मिन् प्रस्तावे तत्र वने अनेकसाधुपरिवारवृत्ताः श्रीगुणाकरसूरयो यथार्थनामानः समवसृताः सन्ति । परं ते कीदृशाःसन्ति :-' पडिरूवो तेयस्सिणो जुगप्पहाणागमो महुरवको गंभीरो श्रीमंतो उवएसपरो अपरिस्साविणो सोमपइगणो, संगहसीलो अभिग्गहमहणो अविकत्थणो अचवलो पसंतहियया स्वतिजुया मद्दवजुया अज्जवजुया मुत्तिजुया तवस्सिणो, संजमपालगा सच्चजुया सोयजुया अकिंचणा बंभचेरवासिणो अणिश्चाइदुवासभावणाभावगा' एवं ३६ षटत्रिंशत्सूरिगुणैः शोभमाना । पुनः कीदृशास्ते !-' जियकोहा जियमाणा जियमाया जियलोहा जियपरीसहा जियभया जियनिद्दा जियविगहा संसारपारगामिणो परमसंविग्गा संसारभवउब्विगा सुयसायरा करुणानिहिणो सव्वजीवसुहेसिणो दीहदंसिणो कुक्खिसंबला संपुण्णसुयबला निम्ममा निव्भमा निरहंकारा निव्विकारा मिच्छत्ततिमिरनासगा निरवज्जवासगा समत्तरयणदायगा गच्छनायगा ' किं बहुना सर्वसाधुगुणसंपूर्णां । तेषां मेघगर्जितगम्भीरव्याख्यानध्वनिं श्रुत्वा कुमारः केकीव हर्षितः सञ्जातविस्मयः --- अहो ! क ईग्मधुरध्वनिना घर्मंमाख्याति १, तत्र गत्वा श्रूयते तदा चारु । ततो जातविवेकातिरेकः समुत्थाय तत्र गत्वा सूरिगुरुं विनयेन नत्वा उचितस्थाने समुपविष्टः । राजपुत्रा विनयं कुर्वन्त्येव यत उक्तम् —
विनयं राजपुत्रेभ्यः, पण्डितेभ्यः सुभाषितम् । अनृतं द्युतकारेभ्यः, स्त्रीभ्यः शिक्षेत कैतवम् ॥१०॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ च समृद्धः पुमान् विनयं कुर्वन् मृ (मि)टो लगति, यदुक्तम्---
पाई पढाइ पढाई वखाणइ रूपवंतनई गाई जाणइ ।
रिद्धिवंतन विनय पट्टs सकरिसत्ये वेवर लुइ ॥११॥
ततः श्रीसूरिभिः धर्मोपदेशः प्रारब्धो यथा - अहो कुमार ! इयं राज्यलक्ष्मीः चञ्चला दृश्यते, यदि न त्यज्यते तदा आरम्भपापपङ्कमग्नत्वेन दुर्गतौ गम्यते, यदुक्तम्-
गयक चंचलाए, अपरिचचाई रायलच्छीए ।
जीवा सकम्मकलिमलभरियभरा तो पडंति अहे ||१२||
पुनरपि बुद्धिमतो मनुष्यस्य बुद्धेः तदेव फलं यत् पुण्यपापादौ तत्त्वविचारणा क्रियते, यत आह
व्रतधारणं च ।
बुद्धेः फलं तत्त्वविचारणं च देहस्य सारं अर्थस्य सारं किल पात्रदानं, वाचः फलं
प्रीतिकरं नराणाम् || १३ ||
पुनरपि शरीरादि सर्वमनित्यं ज्ञात्वा विवेकिना दीर्घदर्शिना मनुष्येण धर्मस्यैव संग्रहः कर्त्तव्यः, यत उक्तम्
अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्त्तव्यो धर्मसंग्रहः || १४ ||
तथा धर्मस्यापि पण्डितेन सुवर्णस्येव परीक्षा कार्या । यदवादि
यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षण- च्छेदन-ताप-ताडनैः
तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपो दयागुणैः ॥ १५ ॥
"
तत्रापि विंशतिविशोपकदयामयो जरामरणादिच्छेदकः चक्रवर्तितोऽप्यधिकसुखस्वरूपः संसारसमुद्रतारकः अजरामर - शाश्वत सुखदायकः पञ्चमहाव्रतरूपो यतिधर्म एव सर्वधर्मोत्तमः । एवं 'श्रीगुरुवचनश्रवणात् संसारस्यासारतां ज्ञात्वा संजातवैराग्यो भाग्यवान् श्रीकालिककुमारः प्रतिबुद्धः सन् करद्वयं संयोज्य विज्ञपयति स्म हे भगवन् ! हे परोपकारवन् ! भवद्वचनेन अहं प्रतिबुद्धोऽस्मि, अथ यावन्निजगृहे गत्वा माता - पित्रोरनुमति छात्वा युष्मत्समीपे नायामि, तावत् श्रीगुरु
For Private And Personal Use Only