________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
श्रीअज्ञातसूरिविरचिता कुन्तासिबाणप्रमुखस्य युद्धं, सैन्यद्वयस्याप्यजनि [वत् ? ] मसिद्धम् । निजं बलं हीनवलं विमृश्य, विवेश वर्ष नृपतिः कुटश्यः ॥३०॥ शाले रिपूणां निकरण रुद्ध, प्रवर्त्तमानेऽय सदैव युद्धे । सूरेः पुरः साहजनो जजल्प, प्रमोदकोट्टो ननु शून्यकल्पः ॥३१॥ आचार्यवर्याः स्वचिदाऽवधार्य, पोचुस्तदा कार्यमिदं विचार्य । अद्याष्टमीमाप्य स गर्दभिल्लो, विद्यां ध्रुवं साधयति स्वमल्लः ॥३२॥ दृष्ट्वा खरी सहचरी नृपतेः सुबोधैः, सूरेरभाणि सहसा सह साहियोधैः । अष्टोत्तरं भटशतं लघुशब्दवेधि, संस्थाप्य सूरिवचनादितरन्न्यषेधि ॥३३॥ संपूरिते सुचिकृते शरधोरणीभिः, खर्या मुखे रिपुभटैरसुचोरणीभिः । विद्धास्य मूर्द्धनि च मूत्रमलं दधाना, दृष्टा न केन कुपिता प्रपळायमाना ॥३४॥ स गर्दभिल्लोऽथ हतप्रभावः, साहिमवीरैरशुभस्वभावः ।। निबध्य निन्ये मुगुरोः सकाशे, मलिम्लुचौपम्यधरश्चकाशे ॥३५॥ रे धृष्ट ! दुष्टाधम ! पापनिष्ठ , निकृष्ट ! संघेन मयाऽवशिष्टः । तदा न किं चेतितवानसि त्वं, रेऽद्यापि तत्त्वं शृणु भावतत्त्वम् ॥३६॥ महासतीशीलविघातसडाऽपमानदानद्रुमपुष्पमेतत् । अनन्तसंसारपथप्रचारफलपकारस्तव भाव्यपारः ॥३७|| आयुरिति प्रभणितोऽपि कृपाईचित्तैनः पुरातनकृतैरशुभैनिमित्तैः । पापः स एव निरवास्यत देशमध्यात् , साध्वी च सारचरणा विदधे विशुद्धया ॥३८॥ आलोच्य सर्वमपि दुष्कृतकमकार, सूरिर्बभार निजकं गुरुगच्छभारम् । ते साहयोऽपि गुरुपादपयोजहंसाः, कुर्वन्ति राज्यमनघं प्रथितप्रशंसाः ॥३९॥ समूलमुन्मूलितशाकवंशः, क्रमादभूद् विक्रमभूपतंसः । येनात्र यक्षाप्तवरत्रयेण, चक्रेऽनृणत्वं जगतोऽचिरेण ॥४॥ संवत्सरोऽयं वदृते यदीयः, शाकक्षितीशामपि(शस्य च) स द्वितीयः । तदेतदेवं प्रकृतं स्वरूपं, प्रसङ्गतोऽमण्यत भाविरूपम् ॥४१॥
आमन्त्रितः श्रीबलमित्र-भानुमित्राधिपाभ्यां भगिनीसुताभ्याम् । ययौ पुरं श्रीभृगुकच्छनाम, सूरीश्वरोऽथोज्ज्वलकीर्तिधाम ॥१२॥ श्रीकालिकाचार्यमुखारविन्दादापीय पुण्योक्तिमहामरन्दान् । । दीक्षां पपेदे गुरुभागिनेयीभानुश्रियः श्रीबलभानुसूनुः ॥४३॥ नृपादिलोकं जिनधर्मलीनं, दृष्ट्वा गुरुपास्तिरसेन पीनम् । क्रोधं पुरोधा बहुधा दधानः, सभासमक्षं गिरमाततान ॥४४॥ श्वेताम्बरा दर्शनबाबतत्त्वा वेदत्रयाचारनिवारकत्वात् । म्लेच्छादिपञ्चैव मुमुक्षुपक्ष, श्रुत्वा जगौ सूरिरितोऽअपक्षम् ॥४५॥
For Private And Personal Use Only