________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । शाखी विषादमापनस्तां पश्यन् श्यामलाऽऽननः । कपोलन्यस्तहस्तोऽस्थाद्, 'विहस्तो ध्वस्तसंमदः] ॥३९॥ . राजाऽऽदिनरैदि(दि)टे, स्थाने ते स्थिते सति । सूरिः पप्रच्छ ते हर्षस्थाने शोक[:] कथं नृप ! ॥४०॥ राजोचे मुनिराजेन्द्र !, मम हर्षपदं कुतः ? । यतोऽस्मान(कं) पुरस्वामी, रुष्टो दुष्टोऽन्तकादपि ॥४१॥ महेयमात्मनश्चित्वा, शिरः क्षुरिकयाऽनया। अन्यथा कुलसंहारो, हा व्याघ्रो हन्त दुस्तटी ॥४२॥ तवैवैकाकिनः किं भो !, कोपाऽऽटोपः प्रभोरभूत् । इति पृष्टो मुनीन्द्रेण, जगाद जगतीपतिः ॥४३॥ क्षुरिका पन्न(ण)वत्यकेनाङ्कितेयं विलोक्यते । मन्ये पन्न(ण)वते राज्ञां, चुकोपोपरि भूपतिः ॥४४॥ गुरुर्जगौ न भेतव्यं, जानीहि नृपतीन् नृप! । वॉश्च राजाऽपृच्छत् कुत्र, गन्तव्यं सोऽपि चै(प्यची) कयत् ॥४५॥ भूपो गुरूपदेशेन, तानाहूय स्वदेशतः । चलितः सिन्धुमुत्तीर्य, मुराष्ट्रां विषयं ययौ ॥४६॥ विभज्य भूभुजो देश, ते तस्थुर्जलदानने(ऽऽगमें) । घरघ(द)पि समायाति, न चेलुः संबलं विना ॥४७॥ कळावान् कालिकाचार्यः, पथि पाथेयहेतवे । सौवर्णमिष्टिकापार्क, चक्रे चूर्णप्रयोगतः ॥४८॥ दातैव देवतालोके, तत्सदादेशकारिणः ।। अखण्डितमयाणैस्ते, ययुर्मालवमण्डलम् ॥१९॥ विज्ञाय गर्दभिल्लोऽपि, परचक्रमुपागतम् । भाचालीदथ युद्धाथै, संक्रुद्धो गर्वपर्वतः ॥५०॥ शाखिभिः समराऽऽरम्भे, बले भग्ने महाबलेः । विवेश माळवेशः स्वं, नगरं कीटिकाऽऽळीवत् ॥५१॥ वेष्टयित्वा जवादुग्रं, वीरवर्गों निरर्गळ: । शराशरि व्यवाद् युद्ध, प्रति मातः परस्परम् ॥५२॥ साखिसेनाचरा दर्ग. तं दृष्टा शुन्यमन्यदा । विस्मयस्मेरवदना गुरवे च न्यवेदयन् ॥५३॥ प्रभुः माहाऽष्टमी वाऽध, मन्ये साधयतीह तत् । पबला गर्दभीविद्यामयमुज्जयिनीपतिः ॥५४॥ रासभीरूपमाघाय, तुष्टा मादुर्भविष्यति । यः शृणोति स्वरं तस्यास्तस्य मृत्युरसंशयम् ॥१५॥
For Private And Personal Use Only