________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा। त्वय्यन्यायरते राजन् !, सर्व स्यादसमञ्जसम् । मुश्चैतां वतिनी तस्याव , परत्रेह च शर्मणे ॥११॥ कोमलैर्वचनैरेवं, गुरुणा भणिसोऽपि सः । प्रधानैर्वार्यमाणोऽपि, मुमोच - तपोधनाम् ॥१५॥ तेजः शामिवारूढो, भ्रकुटीविकटानमः । सभायां कालकाचार्यः, प्रतिज्ञामकरोदिमाम् ॥१६॥ श्रीसंघप्रत्यनीकानां, महापातकिनामपि ।। माघवत्यतिथीनां च, नूनं लेप्येय पाप्मभिः ॥१७॥ यधेनमेनसां धामोन्मूलयामि न मूलतः । इत्युक्त्वा वचनं गत्वा, गच्छेऽनालोच्य किञ्चन ॥१६॥ उन्मत्तवेषो नगरी, हिण्डमानो जजल्प सः । राज्यं भुङ्क्ते गर्दमिल्लवेत् ततः किमतः परम् ? ॥१९॥ [ त्रिभिर्विशेषकम् ] ॥ एतस्य कान्तः शुद्धान्तश्चेत् सतः किमतः परम् । इति दृष्ट्वा जमा सर्वो, हाहारवशुखोऽब्रवीत् ॥२०॥ घिगेनं नृपति यस्य, चेष्टितैः क्रष्टिताशयः । रटन् पिशाचकीवेत्थमाचार्यः पर्यटत्ययम् ॥२१॥ भूयः संभूय सचिवप्रमुखैर्बोधितोऽपि सः । विरराम न कामाचों, वतिनीसंग्रहाग्रहात् ॥२२॥ गर्दभीविद्ययाऽजय्यं, तं ज्ञात्वा मेदिनीपतिम् । उपायेनोन्मूलयिष्यन् , शाककूलं ययौ गुरुः ॥२३॥ ये स्युस्तत्र च सामन्तास्ते साखय इति स्मृताः । तेषां तु नृपतिः साखाबुसाखिरिति विश्रुतः ॥२४॥ आचार्यस्तस्थिवांस्तत्र, साखेरेकस्य संनिधौ । मन्त्रयन्त्रमयोगाचैस्तं चात्यन्तमरञ्जयत् ॥२५॥ अथान्यदा सुखासीने, साखौ तत्र स्वपर्षदि । दूतः साखानुसाखीयः, समागत्यार्पयच्छुरीम् ॥२६॥ छुरिका तां समालोक्य, साखिः श्याममुखोऽजनि । सुरिणा भणितधायं, केयं भो ! विपरीतता ॥२७॥ अनुग्रहे विभोर्यस्मादायाते हृष्यतेतराम् । तवेक्ष्यते तु वैलक्ष्य, ततः साखिरदोऽवदत् ॥२८॥ नानुग्रहोऽयं भगवन् ! निग्रहः पुनरेष मे। यस्मै क्रुध्यति ना स्वामी, तस्मै प्रेषयति छुरीम् ॥२९॥
For Private And Personal Use Only