________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्रसूरिविरचिता अतः पर्युषणापर्व, नातिक्रामति पञ्चमीम् । वेळाभुवमिवाम्भोधिजलकल्लोलमालिका ॥६०॥ चतुर्थ्यांमस्त्विति मोक्ते, भूभुजा सूरयोऽभ्यधुः । अस्तु प्रोक्तं हि सिद्धान्ते, परिवस्तव्यमारतः ॥६१॥ तदाधभूत् पर्युषणा, चतुर्थी पश्चमीतिः । महद्भिः स्वीकृतं कृत्यं, सर्वोऽपि अनुमोदते ॥६२॥
शिष्येष्वयाविनीतेषु, गुरुः शय्यातराग्रतः । शिक्षामुक्त्वाऽगमच्छिष्यशिष्यसागरसन्निधौ ॥६॥ स तु विद्यामदानोपलक्षितः सागरेन्दुना । ऊचे च विषमं कश्चित् , सूत्रार्थ पृच्छ मां जरन् ! ॥६॥ वृद्धोऽभ्यधानमस्कार, मुक्त्वा नान्यद् वेदम्यहम् । तथापि पृच्छेत्याचार्योंदितः स्थविर ऊचिवान् ॥६५॥ वृद्धावस्थोचितं धर्म, व्याचक्ष्वाथ स सागरः । अनित्यताभावनादिधर्ममत्यर्जितं जगौ ॥६६॥ शुद्धोऽप्याहाध्यक्षमुख्यप्रमाणागोचरत्वतः । नैव संभाव्यते धर्मः, शङ्ककर्णविषाणवत् ॥६७॥ तन्मुधा क्रियते क्लेशो, मृईस्तद्विषये ततः । अतः क्षुब्धोऽपि धृष्टत्वमाहत्येत्याह सागरः ॥६८॥ हे वृद्धवर्य ! तत्कार्यसौख्यादेरुपलब्धितः । समस्त्येव तरां धर्मः, श्रीतीर्थङ्करभाषितः ॥६९॥ युक्त्यैवं स्थापिते धर्मे, सागरेण ततो गुरुः । स्थितवान् मौनमाधाय, माऽसौ जानातु मामिति ॥७०।। अहो ! साक्षादसौ वृद्धो, मत्पितामहसनिभः ।। इत्युक्त्वा सागराचार्यों, निजमासनमासदत् ॥७१॥ अथान्तेवासिनो दुष्टाः, प्रातः शय्यातरं गुरुस् । पृच्छन्ति स्म ततः कृच्छ्राज्जातोदन्तास्तमन्वगुः ॥७२॥ सागरेणापि ते दृष्टाः, पृष्टा यावद् विवक्षवः । अभूवंस्तावदाजग्मुः, श्रीसरान्द्रा बहिर्भवः ॥७३॥ ततः ससागरैः साधुन्दैर्मन्दा(न्दे)क्षिताननः । वन्दिताः क्षामिताः पूज्या अपुनःकरणेलः च ॥४॥ उत्थाप्य वालुकामस्थदृष्टान्तेन यतीधरः। बोधितः सागरो विद्यामदमौज्यत् ततः परम् ॥१५॥
For Private And Personal Use Only