________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीव्यवहारसूत्रस्य। पीठिकानंतरः।। // 49 / / रुच्यते / तत्र सापेक्षे गुरौ आचार्य गाथायामत्र विभक्तिलोपः प्राकृतत्वात् / कृते कृतकरणे मूलं, अकृतेऽकृतकरणे च्छेदः। * तृतीयो सावेक्खोति च काउमित्यादि अत्र गुरुशब्देनोपाध्याय उच्यते आचार्यस्योक्तत्वात् / गुरोरुपाध्यायस्य कृतयोगिनः कृतकर- विभागः। णस्य मूलं प्रायश्चित्तमापनस्यापि सापेक्ष इति कृत्वा प्रायश्चिचं च्छेदो भवति / अकृतकरणे तु तस्मिन्नेवोपाध्याय मूलमापन्ने प्रायश्चित्तं षद् गुरुकाः गुरवः / षण्मासाः अकृतकरणतया च्छेदस्यानहेत्वात् / एवममुना प्रकारेण 'अड्डोकंतीए ' इति अर्धापक्रान्त्या प्राग व्याख्यानरूपया नेयं / तद्यथा भिक्षोरधिगतस्य कृतकरणस्य षद् गुरवः अकृतकरणस्य षट् लघवः अस्थिरस्य कृतकरणस्य घट् लघवः अकृतकरणस्य षद् लघवः अकृतकरणस्य तस्यैव चतुर्गुरवः अनधिगतस्य स्थिरस्य कृतकरणस्य चतुर्गुरवः / तस्यैवाकृतकरणस्य चतुर्लघवः। अस्थिरस्य कृतकरणस्य चतुर्लघवः / तस्यैवाकृतकरणस्य गुरुमासः। एवं मलापत्तौ मूलादारभ्य मासगुरुके समाप्तम् / छेदापत्तौ च्छेदादारभ्य मासलघुके तिष्ठति, षद् गुरुकादारभ्य भिन्नमासे गुरुके षद् लघुगुरुकादारभ्य लघुके भिन्नभिन्नमासे चतुर्गुरुकादारभ्य गुरुविंशतिरात्रिंदिवेषु चतुर्लघुकादारभ्य लघुविंशतिरात्रिदिवेषु मासगुरुकादारभ्य गुरुषु पञ्चदशरात्रिंदिवेषु मासलघुकादारभ्य लघुपञ्चदशरात्रिंदिवेषुभिन्नमासगुरुकादारभ्य गुरुषु दशरात्रिंदिवेषु भिन्न मासलघुकादारभ्य लघु दशरात्रिंदिवेषु गुरुविंशतिरात्रिंदिवेभ्य मारभ्य गुरुपश्चरात्रि दिवेषु लघुविंशतिरात्रिंदिवेभ्य लघुपंचरात्रि दिवेषु, गुरुपंचदशरात्रि दिवेभ्यो दशमे, लघुपंचदशरात्रि दिवेभ्योऽष्टमे, गुरुदशरात्रिंदिवेभ्य आरभ्य षष्ठे लघुदशरात्रिंदिवेभ्य आरभ्य चतुर्थे, गुरुपंचरात्रिंदिवेभ्य आरभ्य आयामाम्ले लघुपञ्चरात्रि दिवेभ्यः आरभ्य एकाशने दशमादारम्य पूर्वार्धष्टमादारभ्य निर्विकृतिके / सम्प्रति 'जं सेवेइ अहिगतो' इत्यादि यत् गाथोत्तरार्ध प्रागुक्तं तद्व्या // 49 / For Private and Personal Use Only