SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie पाध्यायभिक्षुभेदात् / ते प्रत्येकं द्विधास्तद्यथा-कृतकरणा अकृतकरणाश्च / पुनः प्रत्येकं द्विधा-अधिगता अनधिगताश्च गीतार्था अगीताश्चेत्यर्थः / गाथायां गीतार्थग्रहणमुपलक्षणं तेनागीतार्था अप्युपात्ता द्रष्टव्याः / भूयः प्रत्येकं द्विविधास्तद्यथा-स्थिरा अस्थिराश्च / तत्र ये चरकादिभिर्दर्शनतः परीषहोपसगैः चरणतोऽतिकर्कशप्रायश्चित्तदानतः स्वभावतो वा न चाल्यन्ते ते स्थिरास्तद्विपरीता अस्थिराः / साम्प्रतं कृतकरणस्वरूपमाह-- छहमाइएहिं कयकरणा ते य उभय परियाए। अहिगयकयकरणत्तं जोगा य तवारिहा केई // ये उभयपर्याये गृहस्थपर्याये श्रामण्यपर्याये च षष्टाष्टमादिमिः परिकर्मितशरीरास्ते कृतकरणा इतरेऽकृतकरणाः / केचिदाचार्या येऽधिगतास्तेषां नियमतः कृत करणत्वमिच्छन्ति / कस्मादिति चेदत आह-जोगा य तवारिहा इति, यतस्तैमहाकल्पश्रु| तादीनामायता दीर्घकाला योगा व्यूढाः / सव्वेसिं अविसिट्टा पावती तेण पढमया मूलं / सावेक्खे गुरुमूलं कयाकए होइ च्छेदो उ॥ सावेक्खोत्ति च काउंगुरुस्त कयजोगिणो भवे च्छेदो। अकयकरणं मिच्छग्गुरु इइ अड्डो कंतीए नेयं॥ इह ये निरपेक्षास्ते यत् प्रायश्चित्तस्थानमापद्यन्ते तदेव तेभ्यो दीयते / गुरुलाघवचिन्तया अपवादपदेनान्यत् तेषां निरनुग्रहत्वात् / ततः सापेक्षाणामयं प्रायश्चित्तदानविधिः / तत्र महत्यप्यपराधे सापेक्षाणां मूलं नानवस्थाप्यं पाराश्चितं वा / तयोनिरपेचाणामेव सतां दानभावात् / तेन प्रथमतया सर्वेषां मूलमविशिष्टमधिकृत्य गुरुलाघवचिन्तायां प्रायश्चित्तदानविधिः For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy