________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 48 // तथैव खलु निरपेक्षाः / तत्र ये गच्छं शरीरं वापेक्षन्ते ते सापेक्षा, येपुनर्गच्छं शरीरं वा नापेक्षन्ते ते निरपेक्षाः / तत्र निरपेक्षा जिनादयो जिनकल्पिका आदिशब्दात् शुद्धपारिहारिका यथालन्दिकाः प्रतिमाप्रतिपन्नाश्च, एते नियमतः कृतकरणाः। सापेक्षाः त्रिविधा आचार्यादयः, आचार्योपाध्याया भिक्षवश्चेत्यर्थः / अकयकरणा यदुविहा अणहिगहिया अहिगयाो बोधव्वा। सेवेइ अहिगतो अणहिगए अस्थिरे इच्छा।। अकृतकरणा द्विविधा-अनधिगता अधिगताश्च / तत्र येऽग्रहीतसूत्रार्थास्ते अनधिगता गृहीतसूत्रास्त्विधिगताः / तत्र | योऽधिगत उपलक्षणमेतत् कृतकरणो धृतिसंहननयुक्तश्च यत्सेवते प्रायश्चित्तस्थानं तस्य तत्परिपूर्ण दीयते / य: पुनरनधिग. तोऽस्थिरोऽधिकृतकरणो धृतिसंहननविहीनश्च तस्य यदापन्नं तद्वा परिपूर्ण दीयते / यदि वा इस्वतरं यद्वा सर्वात्मनाझोषस्तथा चाहानधिगतेऽस्थिरे उपलक्षणमेतत् अकृतकरणे धृतिसंहननविहीने च गुरोः प्रायश्चित्तदानविधाविच्छा श्रुतोपदेशानुसारतः कदाचित् यदापनं तदेव कदाचित् हीनं कदाचित् स्तोकं कदाचित् सर्वथा झोप इति भावः / सम्प्रति पुरुषभेदमार्गणामेव प्रकारान्तरेणाह* अहवा सावेक्खियरे निरवेक्खो नियम सा उ कयकरणा। इयरे कया कयाविय थिराथिरा होति गीयत्था॥ ___ अथवा द्विविधाः प्रायश्चित्तस्यवहमानकाः पुरुषास्तद्यथा-सापेचा इतरे च निरपेक्षास्तत्र ये निरपेक्षास्ते नियमसा उ इति, नियमतः कृतकरणा उपलक्षणमेतत् ततः कृतकरणादिसमस्तगुणोपेता इत्यर्थः / इतरे सापेक्षास्ते त्रिविधा-आचार्यो // 48 // For Private and Personal Use Only