________________ Acharya Shri Kailassagersuri Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एते त्रयो विकल्पाश्चरमाया हाडाहडाया अथवा इमे त्रयो विकल्पा:| सा पुण जहन्न उक्कोस मज्झिमा तिन्नि विगप्पा। मासो छम्मासा वा अजहण्णुकोसजेमज्झे // 417 // सा हाडहडा आरोपणा त्रिविधा, तद्यथा-जघन्या मध्यमा उत्कृष्टा च / एते त्रयो विकन्या हाडहडाया भवन्ति / तत्र गुरुको मासो जघन्या ' षण्मासा गुरव उत्कृष्टा / एतयोयोमध्ये ये गुरुद्विमासादयो गुरुमासपञ्चकपर्यन्ता एषा जघन्योस्कृष्टा हाडहडा सा चतुर्विकम्पा, तद्यथा-द्वैमासिकं गुरुक, त्रैमासिकं गुरुकं चातुर्मासिकं गुरुकं पाश्चमासिकं गुरुकमिति / सम्प्रति यत्प्रागुक्तं प्रायश्चित्तं पुरुषजाते इति तद्न्याख्यातुकामः प्रस्तावनामाह-तालपलंवादि आमेतालमलंबेत्यादिना समस्तेन कल्प ग्रन्थेन / आदिशब्दस्यानेकाभिधायकत्वात व्यवहाराध्ययनेनापि यः प्रायश्चित्तराशिरुक्तो वक्ष्यते च तस्य समस्तस्यापि यथायोगमिमे वक्ष्यमाणाः कृतकरणादयः पुरुषा वहत्का वहमानकाः / ते च यद्यपि प्रागुक्तास्तथापि प्रकरणानुरोधात् भूय आहकयकरणा इयरे य सावेक्खा खलु तहेव निरवेक्खा। निरवेक्खा जिणमाई सावेक्खा पायरियमादी॥४१॥ ___एतत्प्रभृतिका गाथा यद्यपि प्रागपि व्याख्याता तथापि मूलटीकाकारेणापि भूयो व्याख्याता इति तन्मार्गानुसारतः स्थानाशून्यार्थ वयमपि लेशेन व्याख्यामः-तत्र प्रायश्चित्तस्य वहमानकाः पुरुषा द्विविधास्तद्यथा-कृतकरणा अकृतकरणा | श्व / तत्र ये षष्टाष्टमादितपो भावितास्ते कृतकरणास्त द्विलक्षणा इतरे / तत्र ये कृतकरणास्ते द्विविधास्तद्यथा-सापेक्षाः For Private and Personal Use Only