________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 47 // पट्टवितियावहंते वेयावञ्चठिया ठवितियाउ। कसिणा झोसविरहिया जहिं झोसोसा अकसिणाउ॥४१॥ यदारोपितं प्रायश्चित्तं वहति एषा प्रस्थापितिकारोपणा, या वैयावृत्यकरणलब्धिसम्पन्न प्राचार्यप्रभृतीनां वैयावृत्यं कुर्वन् यत् प्रायश्चित्तमापनस्तस्यारोपितमपि स्थापितं क्रियते, यावत् वैयावृत्य परिसमाप्तिर्भवति / द्वौ योगावेककालं कर्तुमसर्थ इति / कृत्वा सा आरोपणा स्थापनिका; कृत्स्ना नाम यत्र झोषो न क्रियते / अकृत्स्ना यत्र किश्चित् झोप्यते / हाडहडा त्रिविधा, तद्यथा-सद्योरूपा स्थापिता प्रस्थापिता च / तत्रेयं सयोरूपाउग्घायमण्डघायं मासादितवाश्रोदिजए सव्वं / मासादीनि क्खित्तं, जं सेसं तं अणुग्घायं // 415 // ___उद्घात लघु अनुद्घातं गुरु यत्मासादि मासिकमादिशब्दान् द्वैमासिकं त्रैमासिकं वा इत्यादि तप मापनस्तद्यदि सद्यस्तत्काल दीयते / न कालक्षेपेण तदा सा हडाहडा आरोपणा सद्योरूपा / यदि पुनर्यन्मासादिकमापनस्तत वैयावृत्यमाचार्यादीनां करोतीति स्थापितं क्रियते / तस्मिंश्च स्थापिते यदन्यत् शेषमुद्घातमनुद्घातं वा पद्यते तत्सर्वमपि प्रमादनिवारणार्थमनुद्घातं दीयते, सा हाडहडा आरोपणा स्थापिता / प्रस्थापितायाः स्वरूपमाहछम्मासादि वहंते अंतरे श्रावण्णे जा उपास्वणा। सा होति अणुग्घाया तिन्नि विगप्पा उचरिमाए॥४१६॥ पाण्मासिकं तपो वहन् , आदिग्रहणात्पाश्चमासिकं चातुर्मासिकं त्रैमासिकं द्वैमासिकं वा वहन् अन्तरा यदन्यदापद्यते उद्घातमनुद्घातं तत्तस्यातिप्रमादनिवारणार्थमनुग्रहकृत्स्नेन चानुद्घातं यदारोप्यते / एषा हाडहडा प्रारोपणा प्रस्थापिता। For Private and Personal Use Only