________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चत्वारिसूत्राणि वक्तव्यानि / तत्र प्रथमभङ्गानुगतसूत्रं प्रागेवातिदेशनत उक्तम् / द्वितीयतृतीयभङ्गानुगते सूत्रे प्राग्वद्वक्तव्ये, चतुर्थभङ्गानुगतं सूत्रं साक्षादतिदेशत आह–'एवं बहुसो वि' इति / एवमनन्तरोदितसूत्रप्रकारेण बहुशोपि बहुशःशब्दविशिष्टमपि सूत्रं वक्तव्यम् / तद्यथा-जे भिक्खू बहुसो चउमासियं वा बहुसो सातिरेगचाउम्मासियं वा बहुसो पंचमासियं वा बहुसो सातिरेगपंचमासियं वा / एएसिं परिहारठाणाणं अस्मयरं परिहारठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणे हवणिज ठवयित्ता करणिजं बेयावडियं ठविए पडिसे वित्ता / सेधि कसिणे तत्थेव आरुहेयव्वे सिया, पुन्वं पडिसेवियं पुव्वं मालोइयं जाव पच्छा पडिसेवियं पच्छा आलोइयं अपलिउंचिय अपलिउंचियं जाव पलिउंचिए पलिउंचिय आलोएमाणस्स सव्वमेयं सकयं साहणियं जे एयाए पट्ठवणाए जाव तत्थ आरोहव्वे सिया इति तदनन्तरं मासिकद्वैमासिकादीन्यपि सूत्राणि सम्यगुपयुज्य विस्तरतोऽनेकानि बक्तव्यानि | आह–से वि तत्थेव आरोहेयव्वे सिया इत्युक्तं तत्र कति भेदा आरोपणाया ? उच्यते-पश्च / तथा चाहपट्रवितियाट्टविया कसिणाकसिणा तहेव हाडहडा। आरोपण पंचविहा पायच्छित्तं पुरिसजाते 413 // आरोपणा पञ्चविधा पञ्चप्रकारा, तद्यथा-प्रस्थापनिका, स्थापिता, कुल्ला, अकृत्स्ना, हाडहडा च / एषा पञ्च प्रकाराप्यारोपणा प्रायश्चित्तस्य / तच्च प्रायश्चित्तं पुरुषजाते कृतकरणादौ यथायोग्यमवसेयमेव गाथासंक्षेपार्थः / इदानीमेनामेव गाथा व्याख्यानयन् प्रथमतः प्रस्थापनिकादि भेदचतुष्टयं व्याख्यानयति For Private and Personal Use Only