________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ख्यानार्थमाहअकयकरणा उगीया जे अगीया य अकय अथिरा य। ते सावत्ति अणंतर बहुयंतरियं च झोसोवि।। ये गीता गीतार्थाः प्रकृतकरणाः ये चागीता अगीतार्था अकयत्ति य कृतकरणाश्चब्दात् कृतकरणाश्च अस्थिराश्च कृतकरणाऽकृतकरणाश्च तेषां कदाचिदापत्ति प्रायश्चित्तं दीयते / कदाचित्तथाविधायामसमर्थतायां यदापनं प्रायश्चित्तं तस्य अर्वाक्तनमनन्तरं दीयते / कदाचित् प्रभूतायामसमर्थतायां बहन्तरितमत्यन्तमसमर्थतायां झोषो वा / अत्र शिष्यः प्राह-ये निरपेक्षास्ते एकविधा ये सापेक्षास्तेषां कि निमित्तस्विविधो भेदस्तत आहकारणमकारणं वा जयणा अजयणा नवस्थगीयत्थे / एएण कारणेणं आयरियाई भवे तिविहा / / इदं प्रतिसेवनायाः कारणमिदमकारणं / किमुक्तं भवति ? यादृशे कारणे प्रतिसेवना क्रियते यादृशे च न क्रियते इत्येतत् परिज्ञानं / तथा इयं यतना इयमयतना इत्येतदपि नास्ति अगीतार्थगीतार्थस्य, अर्थात् गीतार्थस्यास्तीति प्रतीयते तत्राचार्योपाध्यायौ गीतार्थावेव भिक्षुर्गीतार्थःअगीतार्थश्च गीतार्थस्यागीतार्थस्य च कारणे यतनया कारणे अयतनया अकारणे यतनया अकारणे अयतनया पृथक् अन्यत् प्रायश्चित्तं / तथा तुन्येऽपि प्रायश्चित्ते आपद्यमाने सहासहपुरुषाद्यपेक्षया पृथगन्योन्योदानविधिरेतेन कारणेन त्रिविधा आचार्यादयो भवन्ति / किं चान्यत्-- तिविहे तेगिच्छमि उ उज्जुय वाउलण साहणा चेव / पराणवणमणिच्छंते दिलुतो भंडिपोएहि // For Private and Personal Use Only