SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव तृतीयो विभाग। हारपत्रस्य पीठिकाऽनंतरः। // 50 // त्रिविधे त्रिप्रकारे आचार्योपाध्यायभिक्षुलक्षणे विचिकित्से चिकित्स्यमाने गीतार्थ इति गम्यते / ऋजुकं स्फुटमेव प्रावृतनसाधनाव्यापृतकियाकयनं / इयमत्र भावना-आचार्याणामुपाध्यायानां गीतार्थानां च भिक्षूणां चिकित्स्यमानानां यदि शुद्ध प्रासुकमेषणीयं लभ्यते तदा न तत्र विचारः। अथपासुकमेषणीयं न लभ्यते, अथ चावश्यं चिकित्सा कर्तव्या तदा अशुद्धमप्यानीय दीयते, तथाभूतं चानीय दीयमानं स्फुटमेव कथनीयं इदमेवंभूतमिति / गीतार्थत्वेनापरिणामदोषस्यातिपरिणामदोषस्यासंभवात् अगीतार्थस्य पुनर्भिक्षोः शुद्धालाभे चिकित्सामशुद्धेन कुर्वतो मुनिवृषभा यतनया कुर्वन्ति / न चाशुद्धं कथयन्ति / यदि पुनः कथयन्ति अयतनया वा तदा सोऽपरिणामत्वादनिच्छन् अनागाढादिपरितापनमनुभवति, तन्निमित्तं प्रायश्चित्तमापतति मुनिवृषभाणां, यद्वा अतिपरिणामकतया सोऽतिप्रसङ्गं कुर्यात् तस्मान्न कथनीयं नाप्ययनना कर्तव्या / अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवति, यथा अकल्पिकमानीय मह्यं दीयते, तदा तस्मिन्ननिच्छति अगीतार्थे भिक्षौ प्रज्ञापनादि क्रियते / यथा ग्लानार्थ यदकम्पिकमपि यतनया सेव्यते तत्र शुद्धो ग्लानो यतनया प्रवृत्तेरल्पीयान् दोषोऽशुद्धग्रहणात् सोऽपि पश्चात् प्रायश्चित्तेन शोधयिष्यते, / एवंरूपा च प्रज्ञापना क्रियते तरुणे दीर्घायुषि, यस्तु वृद्धस्तरुणो * वाऽतिरोगग्रस्तोचिकित्सनीयः स भक्तप्रत्याख्यानं प्रति प्रोत्साह्यते / यदि पुनः प्रोत्साह्यमानोऽपि न प्रतिपद्यते तदा भण्डीपोताभ्यां दृष्टान्तः कर्तव्यः / सम्प्रति भण्डीपोतावेव दृष्टान्तावाह __जो एगदेसे अदढाउ भंडी सीलप्पएसा उ करेइ कजं / // 50 For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy