________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जा दुब्बला संठवियाविसंती न तं तुसीलंति विसन्नदारूं // जो एगदेसे अदढो उ पोतो सीलिज्जते सो उ करेइ कजं / जो दुब्बलो संठवितो वि संतो न तं तु सीलंति विसन्नदारूं॥ वृत्तद्वयमपि कण्ठ्वम् / एसे व गमो नियमा समणीणं दुगविवजितो होइ / आयरियादीण जहा पवित्तिणमादीण वि तहेव // यो गमोऽनन्तरोदित मूलसूत्रादारभ्य श्रमणानामभिहित एष एव गमो नियमात् संयतीनामपि वक्तव्यः। किमविशेषेण ? नेत्याह-द्विकवर्जितः पाराश्चितानवस्थाप्य लक्षणद्विकवर्जितो भवति वक्तव्यः / तदापत्रावपि तासां तयोर्दानाभावात् उपलक्षणमेतत् / परिहारतपोपितासां न भवति यथा च आचार्यादीनां त्रिविधो भेद उक्तस्तथा प्रवर्तिन्यादीनामपि त्रिविधो भेदोऽ वसातव्यः / तद्यथा-प्रवर्तिनी गणावच्छेदिनी भिक्षुकी च तत्राचार्यस्थानीया प्रवर्तिनी उपाध्यायस्थानीया गणावच्छेदिनी भिक्षुस्थानीया भिक्षुकी चेति, / तदेवं मूलसूत्रादारभ्य यत् प्रकृतं तत् परिसमाप्तम् / / For Private and Personal Use Only