________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kalassagersi Gyanmandie श्री व्यवहारसूत्रस्य पीठिकाऽ तृतीयो विभाग नंतरः। चउगुरुयं मासो वा मासो छल्लहग 3 गुरुमासो। छग्गुरुयं छल्लहुयं चउगुरुयं वा वितिएणं // 20 // सिंहानुगस्य पुरतः सिंहानुगो भृत्वा यद्यालोचयति. ततश्चतुर्गुरु प्रायश्चित्तं; सिंहानुगस्य वृषभानुगीभ्यालोचयतो मासलघः सिंहानुगस्य क्रोष्टुकानुगीभूय पादप्रोञ्छने रजाहरणनिषद्यायां वा स्थितस्यालोचयतो मासलघु, उत्कुटुकः सन आलोचयन शुद्धः / वृषभानुगस्य पुरतः सिंहानुगो भूत्वा यद्यालोचयति, ततः षट् लघु षट् मासा लघवः प्रायश्चित्तं, वृषभानुगस्य पुरतो वृषभानुगीभूयालोचयतश्चतुर्गुरु चत्वारो गुरुमासाः, वृषभानुगस्य क्रोष्टुकानुगीभूयालोचयतो मासो लघुमासः, क्रोष्टुकानुगस्य पुरतो यदि सिंहानुगो भूत्वा आलोचयति ततः षट् गुरु षद् मासा गुरवः क्रोष्टुकानुगस्यैव पुरतो वृषभानुगीभूयालोचयतः षट् लघु षण्मासा लघवः, क्रोष्टुकानुगस्य पुरतः क्रोष्टुकीभूयालोचयतश्चतुर्गुरु / एतच्च सदृशासनपरिग्रहे प्रतिपत्तव्यं यदि पुनरुत्कुटुकः सबालोचयति तदा शुद्धः, / अत्रैव व्याप्त्या प्रायश्चित्तलक्षणमाह / सव्वत्थवि समासणे आलोएंतस्स चउगुरूहोंति।विसमासण निच्चतरे अकारणे अविहिए मासो॥४१०॥ __सर्वत्रापि सिंहानुगे वृषभानुग क्रोष्टुकानुगे च समे आसने उपविष्टस्य सत आलोचयतः किमुक्तं भवति ? यादृशे आसने निविष्ट आलोचनाहः आलोचकोऽपि यदि तादृश एवासने उपविष्टः सन्नालोचयति,तदा तस्य प्रायश्चित्तं भवति चतुर्गुरु चत्वारो गुरुमासाः, अत एव प्राक् सिंहानुगस्य पुरतः सिंहानुगस्यैवालोचयतो वृषभानुगस्य पुरतो वृषभानुगस्यालोचयतः, क्रोष्टुकानुगस्य पुरतः को // 45 // For Private and Personal use only