________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तानि तपसा कालेन च गुरुकानि द्रष्टव्यानि, / तथा सिंहानुगवृषभानुगक्रोष्टुकानुगरूपाणां त्रयाणामालोचनार्हाणां भिक्षुणां वृषभा अप्यालोचका नव तेषामपि यथाक्रमममून्येव प्रायश्चित्तानि, नवरं तपसा गुरूणि कालतो लघूनि / तथा त्रयाणां सिंहानुगादिरूपाणां भिक्षूणामालोचनाहीणां भिक्षवोऽप्यालोचका नव तेषामपि यथाक्रमममन्येव प्रायश्चित्तानि, नवरं तपसा लघू. नि / कालतो गुरूणि / तथा चाहदोहिं वि गुरुयाएते, गुरुमिनियमातवेण कालेणं वसभंमि य तव गुरुणा कालगुरू होंति भिक्खूमि॥४०७॥ ___गतार्था / सम्प्रति व्याप्त्या प्रायश्चित्तलक्षणप्रतिपादनार्थमाहसव्वत्थवि संठाणं अमुंचमाणस्त मासियं लहयं / परहाणमि व सुद्धो जइ उच्चतरो भवे इयरो // 408 // स्वस्थानं नाम स्वोचितमुपवेशनत आलोचयन्नपि यदि न मुञ्चति / ततस्तदमुञ्चतः सर्वत्रापि सर्वेष्वप्याचार्यत्वादिषु स्थानेषु प्रायश्चित्तं मासिकं लघु / इयमत्र भावना-यथालोचनार्हस्याचार्यस्य सिंहानुगस्य पुरतः सिंहानुग एव सन्नाचार्य आलोचयति, तथा वृषभस्य वृषभानुगस्य वृषभ एच वृषभानुग आलोचयति तथा भिक्षोः क्रोष्टुकानुगस्य भिक्षुरेव क्रोष्टुकानुग आलोचयति तत एतेषु त्रिष्वपि स्थानेषु प्रत्येक प्रायश्चित्तं मासिकं लघु, / एतच्च मासिया तिन्नित्ति प्रागेवोक्तं परस्थाने वर्तमानः सर्वत्र शुद्धो यदि नीचतरानुगः सबालोचयति / इतर आलोचनाहः पुनरुच्चतरानुगो भवेत् / तदेवं विभागत एकाशीति विधप्रायश्चित्तमुक्तम् / इदानीमोघतो नवविधं प्रायश्चित्तमाह For Private and Personal Use Only