SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie त्रयाणामालोचनाहाणां वृषभाणां ये पूर्वक्रमेणाचार्या आलोचका नव भवन्ति तेषां यथासङ्ख्यं प्रायश्चित्तमाह लहुया लहुओ सुद्धा गुरुया लहुयो य अंतिमो सुद्धो। छल्लह चउलहु लहुओ वसभस्स उ नवसु ठाणेसु // 404 // वृषभस्यालोचनाईस्य सिंहानुगादिरूपतया त्रिविधस्य नवसु स्थानेषु नवस्वाचार्येषु आलोचकेषु यथाक्रममिदं प्रायश्चित्तम् / तद्यथा-वृषभस्य सिंहानुगस्य पुरतः सिंहानुगतया आलोचयति आचार्यस्य चत्वारो लघुमासा, वृषभानुगतया आलोचयतो लघुको लघुमासः क्रोष्टुकानुगतया आलोचयन् शुद्धः, वृषभस्य वृषभानुगस्य पुरतः सिंहानुगतया अालोचयत: आचार्यस्य चत्वारो गुरुका गुरुमासाः। वृषभानुगतयालोचयतो लघुको लघुमासः क्रोष्टुकानुगतया आलोचयन शुद्धः वृषभस्य क्राष्टुकानुगतस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य प्रायश्चित्तं षट् लघवो लघुमासाः भवन्ति वृषभानुगतयालोचयतचत्वारो लघुमासाः, कोष्टुकानुगतयालोचयतो लघुमासः। दोहिं वि गुरुगा एते गुरुमि नियमा तवेण कालेणं / वसभंमि य तव गुरुगा कालगुरू होंति भिक्खूमि / / 405 // गुरौ नवप्रकारे आलोचयति नियमादेतानि यथाक्रममनन्तरोदितानि प्रायश्चित्तानि द्वाभ्यां गुरुकाणि प्रतिपत्तव्यानि, / तद्यथा-तपसा कालेन च / वृषभस्यैव सिंहवृषभक्रोष्टुकानुगतया त्रिविधस्यालोचनार्हस्य पुरतो वृषभे नवप्रकारे आलोच For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy