________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 39 // भङ्गौ मायाविन इति शेषः / चरमः पुनर्भङ्गः पश्चादानुपूर्व्या प्रति सेवितं पश्चादानुपूर्व्यालोचितमित्येवंरूपः प्रथमसदृशः / यथा प्रथमे भङ्गे यथैव प्रतिसेवना तथैवालोचनेत्यमायाविनः स भङ्गः। तथा चरमभङ्गेऽपि प्रतिसेवनाक्रमेणालोचना न मायावशतोऽन्यथेत्येषोप्यमायिन एवेति प्रथमसदृशश्चरमभङ्गः / तदेवं यतः प्रथमचरमभङ्गावमायाविनो द्वितीयतृतीयभङ्गो प्रतिकुश्चनायामतः प्रतिकुश्चनाऽप्रतिकुश्चनाविषयचतुर्भङ्गी सूत्रखण्डं अपलिउञ्चियं इत्यादि / एतद्व्याख्यानार्थमाह / / पलिउंचण चउभंगो वाहे गोणीय पढमतो सुद्धो।तं चेवयमच्छरिते सहसा पलिउंचमाणे उ // 394 // प्रतिकुश्चनमधिकृत्य प्रतिषेधाप्रतिषेधाभ्यां चतुर्भङ्गी / गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् / सा च चतुर्भङ्गी यथा सूत्रेण तथोच्चारणीया / तद्यथा अप्रतिकुश्चितेप्रतिकुश्चितं 1, अप्रतिकुञ्चिते प्रतिकुञ्चितं 2, प्रतिकुञ्चिते अप्रतिकुश्चितं 3, प्रतिकुञ्चिते प्रतिकुश्चितं 4 / अस्यां चतुर्भङ्गयां व्याधो गोणी च शब्दात भिक्षुकी च दृशान्तः। तत्र व्याधदृष्टान्तोऽयम्-जहा कोवि वाहो कस्सइ ईसरस्स कयवित्तीतो मंस उवणेइ / अण्णया सो बाहो मंसं सुंदरं घेर्नु ईसरसमीवं संपद्वितो चिंतेइ य इमस्स सव्वं मंसं दायव्वंति पत्तो ईसरसमीवं / तेण आभट्ठो स्वागतं सुस्वागतं उवविसाहित्ति वाहेणं तुटेणं सव्वं मंसं दिन्नं / एवं कोवि सावराहो आलोइउकामो आयरियस्सगासं द्वितो चिंतेइ य सुहुमबायरा सब्वे मइयारा मए आलोइयव्वा इति पत्तो आयरियसमीवं / आयरिएणं सुट्ट आढाइत्तो धमोसि तुम, संपुग्नोसि तुमं, न दुकरं जं पडिसेविजइ तं दुकरं जं सम्म आलोइजइ / ततो तुद्वेण सव्वं जहा चिंतियमपलिचियमालोइयं / इह चिंतावेलायामप्यप्रति For Private and Personal Use Only