________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org द्वितीयतृतीयभंगयोः / पुनर्यदापन्नं तावनियमतो दीयते, केवलं मायिनो मायाविनस्तौ भङ्गाविति द्वयोरपि भङ्गयोरधिको गुरुमासो दीयते / साम्प्रतमनयोरेव भङ्गयोर्भावनामाहपुव्वं गुरूणि पडिसेविऊण पच्छा लहूणि सेवित्ता। लघुए पुव्वं कहयति मा मे दो दिज पच्छित्ते // 391 / / ___अत्र द्वितीयभङ्गभावनायां गुरुशब्दो बृहदभिधायी, लघुशब्दोऽल्पवाचकः / ततोऽयमर्थः-पूर्व गुरूणि मासलघुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते / प्रतिसेव्य च तदनन्तरमालोचनावेलायां पूर्व लघुकानि लघुपश्चकादीनि कथयति पश्चात् मासलघुकादीनि / कस्मादेवं कथयतीति चेदत आह-'मा मे' इत्यादि / पूर्वमासलघुकादिकथने भयतनया प्रतिसेवित्वं मे गुरुणा विज्ञायेत / ततो द्वे प्रायश्चित्ते गुरुर्दद्यात् / अयतनानिष्पन्न प्रतिसेवनानिष्पन्नं च / तस्मात् मामे द्वे प्रायश्चित्ते दद्यादिति पूर्व लघुपश्चकादि कथयति / तृतीयभङ्गभावनायां त्वियं भावना-गुरुलघुपर्यालोचनामन्तरेण गुरूणि मासगुरुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते / प्रतिसेन्य च पूर्व लघुकानि लघुपश्चकादीनि कथयति / पश्चात् गुरुमासादेवं कथयतीति चेदत्र आह-मा मे इत्यादि पूर्ववत् / अथवेयं तृतीयभङ्गविशेषतो भावना। अहवा जय पडिसेवित्ति नव दाहिति मज्झ पच्छित्तं / इय दो मज्झिमभंगा चरमो पुण पढम सरिसोउ।३९३। अथवेति प्रकारान्तरे यतं यतनया प्रतिसेवी प्रतिसेवनाकारीति ज्ञात्वा नैव मम दास्यति प्रायश्चित्तं, / उपलक्षणमेतत् / स्वन्पं वा दास्यन्ति प्रायश्चित्तमिति हेतोरुक्तेन प्रकारेण कथयति / तत इति एवममुना प्रकारेण द्वी मध्यमभङ्गो द्वितीयतृतीय For Private and Personal Use Only