SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie | तृतीयो विभागः। नंत। श्री व्यव- एवमालोचयन्तं श्रुत्वा गुरवो ज्ञास्यन्ति / यथा एष महानुभावो यतनया प्रतिसेवितवान् ततो न प्रायश्चित्तभागिति हारसूत्रस्य मह्यं प्रायश्चित्तं दास्यन्ति अल्पं वा दास्यन्ति / ततो द्वितीयभङ्गे च यथापनं तद्दीयते / मायां च कृतवानिति पीठिकान मायानिष्पनो गुरुक इति गुरुमासोऽधिको दीयते / अथवा पच्छा पडिसेवियं पुव्वं आलोइयमित्यत्र न पूर्वशब्दः पूर्वानुपूर्वा भिधायी / नापि पश्चाच्छब्दः पश्चादानुपूर्वीवाचकः, किन्तु प्रसिद्धार्थप्रतिपादको ज्ञेयः। ततोऽयमर्थ:-पश्चात्प्रतिसेविते पूर्व प्राक् आलोचयति / एप भङ्गः कथं संभवतीति चेत् ते आहुः-'आयरियकारणा वा' इति / वा शब्दस्तृतीयभङ्गस्य प्रकारान्तरताव्याख्यापनार्थः / श्राचार्यकारणात् / उपलक्षणमेतत् / पश्चात् प्रतिसेवते पूर्व मालोचयति / इयमत्र भावना आचायोदिकारणतोऽन्यग्रामं गन्तुमना यदि वा कारणान्तरे समुत्पन्ने सति विकृतिमाहारयितुकाम आचार्य विज्ञपयति / -' इच्छामि भदन्त युष्माभिरनुज्ञातः सन् एतेन कारणेन अमुको विकृतिमेतावन्तं कालमाहारयितुमिति / एवं पूर्वमालोचना पश्चात् प्रतिसेवनोपजायते / अथवायं तृतीयो भङ्गः शून्य एव द्रष्टव्यः / तथानुज्ञायामपि कृतायां प्रतिसेवनानन्तरं भूय आलोचनात् / तथा चाह-पच्छावसुन्नोत्ति, पश्चात् प्रतिसेवनापूर्वमालोचनेनि शून्य एव भङ्गस्तुरेवकारार्थः / तत्र यदुक्तं पुवाणुपुन्धि पढमो * इत्यस्य व्याख्यानमाह पच्छित्तऽणुपुबीए जयणापडिसेवणाए अणुपुवी। एमेव विगडणाए बितियतइय माइणो गुरुगो॥३६॥ .. गुरुलघुपर्यालोचनया प्रायश्चित्तानुपूर्व्या प्रायश्चित्तानुपरिपाट्या गुरुलघुपञ्चकादिक्रमेणेत्यर्थः / यत् यतनया प्रतिसेवित- / | मेषा प्रतिसेवनायामनुपूर्वी एवमेव यथैव प्रतिसेवितवान् तथैव यत् आलोचयति / एषा विकटनायामालोचनायामनुपूर्वी // 38 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy