SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चादानुपूर्ध्या भालोचितं 4 / चतुर्भङ्गी भावनार्थमेवाहपुवाणुपुटिव पढमो, विवरीए बिइय तइयए गुरुगो / पायरियकारणा वा पच्छा पच्छावसुलो उ॥३८९॥ ___या पूर्वानुपूर्वी प्रतिसेवनायामालोचनायां च एष प्रथमो भङ्गः / अस्य त्वियं भावना / गीतार्थः कारणे समुत्पन्ने सति लघुगुरुपर्यालोचनापुरस्सरं लघुगुरुपश्चकादि यतनया प्रतिसेवते एषा प्रतिसेवनानुपूर्वी / तदनन्तरं गुरुसकाशे यत् यथा प्रतिसेवितं तत्तथैवालोचयति-एषा आलोचनानुपूर्वी विवरीए बिइय तइयत्ति यथाक्रममनुत्तरपूर्वयोः पदयोर्विपरीतभावप्रधानोऽयं निर्देशः / वैपरीत्ये द्वितीयतृतीयभङ्गौ पूर्वानुपूर्त्या प्रतिसेवितं पश्चादानुपा आलोचितमिति द्वितीयः। पश्चादानुपूर्ध्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितमिति तृतीय इति भावः / तत्रेयं द्वितीयभङ्गभावना पूर्व लघुगुरुपर्यालोचनेन लघुगुरुमासादिक्रमेण यतनया प्रतिसेवितं तदनन्तरं तथाविधकारणोत्पत्तौ लघुगुरुपश्चकादि पालोचनावेलायो तु प्रथमतो लघुगुरुपञ्चकादि कथयति, पश्चात् मासादि / कस्मादेवं कथयतीति चेत् ? उच्यते-आशङ्कासम्भवात् / तथा यदि पूर्वमासादि कथयिष्यामि तस्मात् पश्चकादि तत एवं गुरूणां चित्ते स्थास्यति / यथा एषोऽयतनया प्रतिसेवी कथमन्यथा यतस्ततो मासादि प्रथमतः प्रतिसेवितमान् / ततोऽयतनानिष्पन्नं च द्वे प्रायश्चित्ते मह्यं दद्युरिति पूर्वानुपूज्यों प्रतिसेवते पश्चादानुपूर्व्या आलोचयति तृतीयभङ्गे त्वियं भावना पूर्व गुरुलाघवचिन्ता विकलतया प्रथमतो गुरुमासादीनि प्रतिसेवितानि तदनन्तरं गुरुपश्चकादीनि / आलोचनाबेलायां तु पूर्व लघुपश्चकादीनि कथयति, तदनन्तरं गुरुमासिकादीनि मा मह्यमयतनया प्रतिसेवनाकारीति ज्ञात्वा अयतनानिष्पन्न प्रतिसेवना निष्पन्नं चेति प्रायश्चित्तद्वयं दद्युरिति बुद्धया अथवा For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy