________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 37 // एत्तोसमारोहेज्जा श्रेणुग्गहकसिणेण चिण्णसेसंमि॥ बालोयणं सुणेत्ता पुरिसज्जायं च विमाय // 387 // __एत्तो इति, प्राकृतशैलीवशात् षष्ट्यर्थे पञ्चमी / अमीषां षमा कृत्स्नानां मध्ये अनुग्रहकृत्स्नेन प्रागारोपितस्य चीर्णे | शेषे चीर्णशेषेषु दिवसेषु आरोपयेत् / किं कृत्वा अनुग्रहकृत्स्नेनारोपयेत् इत्यत आह-आलोचना हा दुष्टु कृतमित्यादि निन्दन् पुरःसरं श्रुत्वा आकर्ण्य तथा पुरुषजातं धृतिसंहननाभ्यां दुर्बलं विज्ञाय / इयमत्र भावना-यदि षण्मासापत्रो धृतिसंहननाभ्यां च दुर्बलस्ततस्ते अनुग्रहकृत्स्नेन दीयन्ते / अथ तीब्राध्यवसायेन प्रतिसेवितं रागद्वेषाध्यवसायकलुषितेन वालोचितं धृतिसंहननाभ्यां च न दुर्बलस्ततस्ते निरनुग्रहकृत्स्नेनारोप्यन्ते षट्सु दिवसेषु शेषेषु तदन्यत् पाण्मासिकमारोप्यते इति भावः / सम्प्रति प्रतिसेवनालोचनाविषयाचतुर्भगिकाखण्ड मूत्रं पुच्वं पडिसवियमित्यादि व्याख्यानयति-- पुव्वाणुपुब्वि दविहा, पडिसेवणाए तहेव पालोए। पडिसेवण आलोयणपुव्वं पच्छाव चउभंगो। 388 // सूत्रे पूर्वमिति पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूर्वीति प्रतिपत्तव्यम् / पूर्वानुपूर्वी नाम अनुपरिपाटिः सा द्विधा / तद्यथा-प्रतिसेवने तथैव आलोचे आलोचनायां तत्र प्रतिसेवने आलोचनायां च पूर्व पश्चादिति पदाभ्यां चतुर्भङ्गी / सा च यथा सूत्रे तथा उच्चारयितव्या परं सूत्रे पूर्वशब्दः पश्चाच्छन्दश्च साक्षादुपात्तः / पूर्वशब्दश्च पूर्वानुपूर्वीवाचकः / पश्चाच्छन्दश्च पश्चादनुपूर्व्याभिधायी / तत एवं भङ्गोच्चारणं द्रष्टव्यम् / पूर्वानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या पालोचितम् 1, पूर्वानुपूर्व्या प्रतिसेवितं पश्चादनुपूर्व्या भालोचितम् 2, पश्चादानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितं 3, पश्चादानुपूर्त्या प्रतिसेवितं 37 For Private and Personal Use Only