SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie अनयोर्गाथयोर्यथासङ्खथेन पदयोजना / सा चैवं कृत्स्नं पुनः शब्दो वाक्यभेदार्थः / स च वाक्यभेद एवं वैयावृत्ये | क्रियमाणे प्रतिसेवेत ततस्तत् कृत्स्नमारोपयेत् / तत् पुनः कृत्स्नं पड्विध पदप्रकारं भवति / तद्यथा-प्रतिसेवनेति प्रतिसेवना कृत्स्नमेवं संचयकृत्स्नमारोपणाकृत्स्नं अनुग्रहकृत्स्नमनुद्घातं कृत्स्नं निरवशेष कृत्स्नमिति / तत्र प्रतिसेवनाकृत्स्नं / ततः परस्यान्यस्य प्रतिसेवनास्थानस्यासम्भवात् / सञ्चयकृत्स्नमशीतं मासशतं / ततः परस्य संचयस्याभावात् आरोपणाकृत्स्नं पाण्मासिकं, / ततः परस्य भगवतोवर्धमानस्वामिनः तीर्थे आरोपणस्याभावात् , अनुग्रहकृत्स्नं यत् षमां मासानामारोपितं पद दिवसा गतास्तदनन्तरमन्यत षण्मासान् आपनस्ततो यत अव्यूढं तत्समस्तंझोषितं पश्चात् यदन्यत् पाण्मासिकमापनं तद्वति, तथा चाह--'छद्दिण गहिएहिं ' ति, अत्र तृतीया सप्तम्यर्थे पूर्वषण्माससम्बन्धिषु पसुदिनेषु गतेषु यदन्यत् पाण्मासिकमारोपितमुद्यते / अत्र यस्मात् पश्चमासाश्चतुर्विशतिदिवसाचारोपितास्तत एतदनुग्रहकृत्स्नमनुग्रहकृत्स्नग्रहणेन निरनुग्रहकृत्स्नमपि सूचितं द्रष्टव्यं / तच्चैवं भावनीयं-षण्मासे प्रतिस्थापिते पञ्चमासाश्चतुर्विशतिदिवसाश्च व्यूढास्तदनन्तरमन्यत् पाण्मासिकमापनस्ततः तद्वहति / पूर्वषण्मासस्य षद् दिवसा झोषिताः अनुद्घातकृत्स्नं यत् कालगुरु यथा मासगुरुकादि अथवा निरन्तरं दानमनुद्घातकृत्स्नं / अत्र मासलघुकाद्यपि निरन्तरं दीयमानमनुद्घातमवसातव्यं / यदि वा अनुद्घातं त्रिविधं तद्यथा-कालगुरु तपोगुरु उभयगुरु च / तत्र कालगुरुनाम यत् ग्रीष्मादौ कर्कशे काले दीयते / तपोगुरु यदष्टमादि दीयते निरंतरं वा उभयगुरु यत् ग्रीष्मादौ काले निरन्तरं च दानं निरवशेष कृत्स्नं नाम यदापन्नं तत्सर्वमन्यूनमनतिरिक्तं दीयते / अथात्र कतमेन कृत्स्नेनारोपयितव्यं / उच्यते For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy