________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विधः सामान्येनाचार्यः। तद्यथा-इहलोके हितो नामैको न परलोकहितः१, परलोकहितो नेहलोकहितः 2 इहलोकहितोऽपि परलोकहितोऽपि 3, न इहलोकहितो नापि परलोकहितः 4 / तत्र प्रथमद्वितीयभंगव्याख्यानमाह-' इहलोए' इत्यादि / तत्र यो वस्त्रपात्रभक्तपानादिकं समस्तमपि साधूनां पूरयति न पुनः संयमे सीदतः सारयति सोऽसारणिकः सारणारहितो इहलोकहितो न परलोके / एषा प्रथमभंगभावना / यः पुनः संयमयोगेषु प्रमाद्यतां सारणां करोति न च वस्त्रपात्रभक्तपानादिकं प्रयच्छति, स केवलं स्फुटं भणन् ब्रुवाणः परलोके हितो न इहलोके इति सामर्थ्याद्गम्यते, / एषा द्वितीयमङ्गभावना / तृतीयचतुर्थभङ्गभावना तु स्वयं भावनीया / सा चैवम्-यो वस्त्रपात्रभक्तपानादिकं समस्तमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके हितः परलोके च हितः / चतुर्थ उभयरहितः / अत्र पर आह-' ननु यो भद्रस्वभावतया न सारयति वस्त्रपात्रभक्तादिकं तु समस्तमापूरयति स एव समीचीनो यः पुनः खरपरुषं ब्रुवाणश्चण्डरुद्राचायें इव सारयति न समीचीनोऽसमाध्युत्पादकत्वात्तत्राह-- जीहाण विलिहंतो न भद्दतो जत्थ सारणा नथि। दंडेणवि ता.तो स भद्दतो सारणा जत्थ // 382 // यत्र नाम संयमयोगेषु सीदतां सारणा नास्ति, स आचार्यों जीवया विलिहन् मधुरवचोभिरानन्दयन् उपलक्षणमेतत् वस्त्रपात्रादिकं च पूरयन् न भद्रको न समर्माचीन:, परलोकापायेषु पातनात् / यत्र पुनः सीदतां साधूनां सम्यक् सारणासंयमयोगेषु प्रवर्तना समस्ति स आचार्यों दण्डेनापि ताडयन् भद्रका एकान्तसमीचीनः सकलसांसारिकापायेभ्यः परित्राणकरणात् / अथ सारणामकुर्वाणों जिहया विलिहन कस्मान समीचीन इत्यत्राह-- For Private and Personal Use Only