________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभामः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 35 // उपग्रहो द्विविधो-द्रव्येण भावेन च / तत्र दब्बे इति तृतीयार्थे सप्तमी / द्रव्येणोपग्रहः कन्पस्थितोऽनुपारिहारिको वाऽसमर्थस्य सतोऽन्नपानाद्यानीय ददाति / भावे भावेनोपग्रहो यत् सूत्रेर्थे वा प्रतिपृच्छादि करोति / अथवा यत् ग्लानस्य क्रियते समाधानोत्पादनमेष भावोपग्रहः अधुना दोसु उवग्गहे य इत्यस्य व्याख्यानान्तरमाहपरिहाराणुपरिहारी दुविहेण उवग्गहेण पायरिओ। उवगेण्हइ सव्वं वा, स बालवुड्डाउलंगच्छं॥३७॥ पारिहारिकमनुपारिहारिकं च एतौ द्वावपि द्विविधेन द्रव्यरूपेण भावरूपेण चोपग्रहेणाचार्य उपगृहाति, उपष्टश्नाति / * ततः परोपग्रहे आचार्य उदाहरणम् / 'सब्वत्थवायरिओ' इत्यस्य व्याख्यानमाह-सव्वं वा इत्यादि वाशब्दः पूर्वार्दोक्त पक्षापेक्षया पक्षान्तरसूचने सर्व पारिहारिकमनुपारिहारिकं स चालवृद्धाकुलं च गच्छमाचार्यो द्रव्यतो भावतश्चोपगृहाति, / ततः सर्वत्र समस्तेऽपि गच्छे आचार्य उपग्रहे वर्तते / तस्मात्परोपग्रहे स उदाहरणं अत्रैव व्याख्यानान्तरमाहअहवाणुसटु वालंभुवग्गाहे कुणति तिन्नि वि गुरु से। सव्वस विगच्छस्स अणुसट्ठाईणि सो कुणति।३८०। ___ अथवेति प्रकारान्तरे अनुशिष्टि उपालम्भ उपग्रहान् त्रीनपि गुरुराचार्यः से तस्य पारिहारिकस्य यथायोगं करोति / न केवलं पारिहारिकस्य यथायोगं करोति किन्तु सर्वस्यापि गच्छस्य अनुशिष्ट्यादीनि त्रीण्यपि स आचार्यः करोति / अत्र शिष्यः प्राहआयरिओ केरिसओ, इह लोगे केरिसो व परलोए। इहलोए असारणिओ, परलोए फुडं भणंतो उ।३८१॥ य एष उपगृह कृत आचार्यस्तमेव ज्ञातुमिच्छामि कीदृशः खन्याचार्य इहलोके हितकारी कीदृशः परलोके इति सूरिराह For Private and Personal Use Only