________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दानतो दण्डितोऽस्मीति यत एप प्रायश्चित्तदानरूपो दण्डो दुर्लभः / कस्मात् दुर्लभ इत्याह-भवदण्डनिवारकः निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शनमिति न्यायात् / हेतौ प्रथमा / ततोऽयमर्थः-यत एष दण्डो भव एव संसार एव दुःसहः दुःखात्मकत्वात् / दण्डो भवदण्डस्तस्य निवारको भवदण्डनिवारकः तस्मात् दुर्लभः अपि च हुनिश्चितं हे जीव ! ते मात्मा अनाचारमलिनः प्रायश्चित्तप्रतिपच्या विशोधितो भवति,। तस्मात् न दण्डितोऽस्मीति बुद्धिरात्मनि परिभावयितव्या / किन्तूपकृतोऽहमनुपकृतपरहितकारिभिराचार्यैरिति चिन्तनीयमिति / एवम मुनोल्लेखेन आत्मनि परस्मिन् उभयस्मिंश्चानुशिष्टिरनुगन्तव्या। आत्मनि साक्षादियमुक्ता एतदनुसारेण परस्मिन्नुभयस्मिन्नपि च सा प्रतिपत्तव्यति भावः / अनुशिष्टिस्तुतिरित्येकोऽर्थोत्रापिशन्दः सामर्थ्याद्गम्यते / एतावपि द्वौ शब्दावेकाौँ / किमुक्तं भवति ? अनुशिष्टिः स्तुतिरित्यपि द्रष्टव्यमिति / सम्प्रत्यात्मोपालंभोल्लेखं दर्शयतितुमए चेव कयमिणं न सुद्धगारिस्स दिजए दंडो। इह मुक्कोवि न मुच्चइ परत्थ इह होउवालंभो // 377 // त्वयैव स्वयं कृतमिदं प्रायश्चित्तस्थानं तस्मान्न कस्याप्युपरि अन्यथाभावः कल्पनीयः न खलु शुद्धकारिणो लोकेऽपि दण्डो दीयते / किं च यदि इह भवे कथमप्याचार्येणैव मेवमुच्यते तथापि इह भवे मुक्तोऽपि परत्र परलोके न मुच्यते / तस्मात्प्रमादापन्नं प्रायश्चित्तमवश्यं गुणबुद्ध्या कर्त्तव्यं इति इह एष भवत्युपालम्भः / एष आत्मोपालम्भः। एतदनुसारेण परोपालम्भ उभयोपालम्भोऽपि भावनीयः / सम्प्रति परोपग्रहे यदुक्तं 'आयरितो दोसुबग्गहे य" इति तत् व्याख्यानयतिदव्वेण य भावेण य उवग्गहो दव्व अमपाणाइं। भावे पडिपुच्छाई, करेति वा गिलाणस्स // 378 // For Private and Personal Use Only