SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बच्चमिति सूत्रपदमेतदेवानुवदति कार्य वैयावृत्यं एतदेव व्याचष्टे, कृत्यं करणीयं, तत् स्वोचितंताभ्यां वैयावृत्यं / अथ किं तत् वैयावृत्यं यत्ताभ्यां कर्तव्यमित्यत आहवेयावच्चे तिविहे, अप्पाणंमि य परे तदुभए य। अणुसिट्रि उवालंभे, उग्गहे चेव तिविहम्मि॥३७॥ वैयावृत्यं त्रिविधं, तद्यथा-अनुशिष्टिरुपालम्भोऽनुग्रहश्च / त्रिविधेऽप्यस्मिन् वैयावृत्ये प्रत्येकं त्रयो भेदास्तद्यथा-अनुशिष्टिरात्मनि आत्मविषया, परस्मिन् परविषया, तदुभयस्मिन् उभयविषया। आत्मपरतदुभयविषया इत्यर्थः / एवमुपालम्भोपग्रहावपि प्रत्येकमात्मपरतदुभयविषयौ भावयितन्यौ / तत्र उपदेशप्रदानमनुशिष्टिः, स्तुतिकरणं वा अनुशिष्टिः / तत्र यत् आत्मानमात्मना अनुशास्ति सा आत्मानुशिष्टिः / यत्पुनः परस्य परेण चानुशासनं सा परानुशिष्टिः। तत्रोदाहरणम्-चम्पायां नगयों सुभद्रा सा हि सर्वैरपि नागरिकजनैरनुशिष्टा / यथा-धन्यासि त्वं, कृतपुण्यासि त्वमिति, / यत्पुनरात्मानं परं चानुशास्ति, सा उभयानुशिष्टिः। तथा अनाचारे कृते सति यत् सानुनयोपदेशदानमेष उपालम्भः / सोऽपि विविधस्तद्यथा-आत्मनि परे तदुभये च / तत्र यदात्मानमात्मनैवोपालभते / यथा त्वयेदं कृतं तस्मात् सम्यक् | सहस्वेति स आत्मोपालम्भः / परेणाचार्यादिना यदुपालम्भनं स परोपालम्भः। ___ तत्रोदाहरणं-मृगावतिर्देवी सा हि आर्यचन्दनया अकालचारिणीति कृत्वा उपालब्धा / उभयोपालम्भनो नाम यत्पुनः प्रथमत आत्मानमात्मनोपालभते पश्चादाचार्यादिना परेणोपालभ्यते, / यदि वा गुरुणोपालभ्यमानस्तत् गुरुवचनं सम्यक् प्रतिपाद्यमानं प्रत्युच्चरति, / एषउभयोपालम्भः। तथा उपग्रहणमुपग्रहः उपष्टंभकरणमित्यर्थः / सोऽपि त्रिविधस्तद्यथा, आत्मो For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy