________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परलोकमपेक्ष्य परिहारतपस्वी अनुकम्पितः परिहारतपोदानेन तच्चरणशुद्धिकरणात् शुद्धतपस्वी च परित्यक्तः शुद्धतपसा तच्चारित्रस्य शुद्ध्यभावात् / एवं विवक्षातो द्वावप्यनुकम्पितौ यदि वा त्यक्ताविति, अहवा सोहीत्यादि अथवा तयोः शोधिः सर्वथा न विद्यते / तथा हि-यदि परिहारतपसा शुद्धिस्ततः शुद्धतपस्विनो न शुद्धिस्तस्य परिहारतपोऽभावात् / अथ शुद्धतपसा शुद्धिस्तर्हि पारिहारिकस्य यत् परिहारतपसः कर्कशस्य करणं-तत्सर्व निरर्थकं / शुद्धतपसा शुद्ध्यभ्युपगतो तेन शुद्ध्यभावात् / अत्राचार्य आह-कप्पटगेत्यादि, कल्पस्थगा बालास्तेषां भंडी गंत्री तया दृष्टान्तस्तथा हि-कल्पस्थकग्रहणं महदुपलक्षणं, तेन महद्गच्या दृष्टांत इत्यपि द्रष्टव्यम् , इयमत्रभावना अत्र बालकमंत्र्या बृहत् पुरुषगंत्र्या च दृष्टांतः तथा हि डिम्भा आत्मीयया गंत्र्या क्रीडन्ति स्वकार्यनिष्पत्तिं च साधयन्ति न पुनः शक्नुवन्ति बृहत्पुरुषगंच्या कार्य कर्तु, तथा बृहत्पुरुषाणामपि आत्मीयया बृहद्गन्च्या कार्य कुर्वन्ति / न डिम्भकगन्च्या अथ डिम्भकगन्च्या कुर्वन्ति ततो भूयान् पलिमन्थदोषो न चाभिलषितस्य कार्यस्य परिपूर्णा सिद्धिः। अत्र बृहद्गन्या भारस्तस्यामारोप्यते तर्हि सा भज्यते मूलत एव कार्य न शुद्ध्यति / एवं शुद्धतपस्विनां शुद्धतपसा शुद्धिर्भवति परिहारतपस्विनां च परिहारतपसा, यदि पुनः शुद्धतपस्विनां परिहारतप आरोप्यते ततस्तत्र तेषां शक्त्यभावात् मृलत एव भ्रंशः, / अथवा परिहारतपस्विनां शुद्धतपस आरोपस्तर्हि चरणशुद्ध्यभावस्तावता तेषां चरणशुद्ध्ययोगात् / अथ कथं शुद्धतपस्वी परिहारतपस्वी च स्वस्वतपसा शुद्ध्यति नान्येन तत आह-धम्मया शुद्धो इह शुद्धतपस्वी परिहारतपस्वी वा शुद्धो भवति / धम्मया स्त्रीत्वं प्राकृतत्वात् / धर्मेण स्वशक्तिलक्षणेन स्वभावेन, / तत एवमेव शुद्धिर्नान्यथा / एतदेव स्पष्टतरं भावयति / For Private and Personal Use Only