SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारसूत्रस्य पीठिका नंतरः। / / 32 // श्रया प्रभूतः पंको लग्नः / तत एवं तस्मिन् स्रोतसि रुद्ध क्षेत्रं समस्तमपि शुष्कम् / एवं स्तोकेन स्तोकेनाशोध्यमानेन चरणकुन्यानिरोधे चरणक्षेत्रविनाशो भवति, तत एवं ज्ञात्वा स्तोकमपि प्रायश्चित्तस्थानमापन्नं वोढव्यमिति, शकटदृष्टान्तः / तथा एकः पाषाणः शकटे प्रचितः स नापनीतः, अन्यः प्रक्षिप्तः सोऽपि नापनीतः। एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्यति / स कोऽपि गरीयान् पाषाणो यस्मिन् प्रक्षिप्ते तच्छकटं भंच्यति, एवं स्तोकेन स्तोकेन समापनेन प्रायश्चित्तस्थानेनाशोध्यमानेन कालक्रमेण चारित्रशकटं भज्यते / अथवा अन्यथा शकटदृष्टान्तभावना शकटे-एकं दारुभग्नं तम संस्थापितमेवमन्यदन्यत् भग्नं तन्त्र संस्थापितमिति सर्वभनमेवं चारित्रशकटेऽप्युपसंहारो भावनीयः / तथा एरण्डमण्डपे एकः सर्पपः प्रक्षिप्तः स नापनीतः, अन्यः प्रक्षिप्तः सोऽपि नापनीतः। एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु सर्पपेषु भविष्यति सर्षपो येन प्रचिप्लेन सोऽल्पीयानेरण्डमण्डपो भज्यते / एवं स्तोकेनापनेनाशोध्यमानेन कालक्रमेण चारित्रमण्डपो भज्यते, / बखदृष्टान्ते भावना, यथा-शुद्धे वस्त्रे कर्दमबिन्दुः पतितः, स न प्रक्षालितः, अन्यः पतितः सोऽपि न प्रक्षालितः, / एवं पतत्सु कर्दमबिन्दुष्वप्रक्षाल्यमानेषु कालक्रमेण सर्व तद्वस्त्रं कर्दमवणं संजातम् एवं तु शुद्धचारित्रं स्तोकायां स्तोकायामापतितायामापत्ती प्रायश्चित्तेनाशोध्यमानायां कालक्रमेणा चारित्रं सर्वथा भवति / एवं दृष्टान्तः प्रायश्चित्तस्य दानकरणे च प्रसाधिते पर आहअनुकंपिया य चत्ता अहवा सोही न विजए तेसिं / कप्पट्ठगभंडीए दि,तो धम्मया सुद्धो // 370 // तुल्यायामप्यापत्तौ यस्य शुद्धतपः प्रयच्छतः स युष्माभिरनुकम्पितस्तद्विषये च भवतामवश्यं रागोऽन्यथेत्थमनुकम्पाकरणानुपपत्तेः यस्य पुनः परिहारं प्रयच्छत स परित्यक्तः कर्कशतपोदानात् तथा च सति तस्मिन् व्यक्तं प्रद्वेषः / अथवा For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy