SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir www.kobatirth.org यद्युत्थातुं न शक्नोति ततो ब्रूते उत्तिष्ठामि तदनन्तरमनुपारिहारिकः समागत्योत्थापयेत् तथा यदि निषीदनं कर्तुमसमर्थस्तदा निषीदामीति वचनानन्तरं सत्वरमागत्य निषीदयेत् / यच्च भिक्षां गतः सन् कर्तुं न शक्नोति तदपि भिक्षाग्रहणादिकं करोति / अथ ब्रूते भिक्षा एव हिण्डितुमसमर्थः। यदा भिक्षामनुपारिहारिकः केवलो हिण्डेत एवं भण्डकप्रत्युपेक्षणेऽपि साहाय्यं करोति / समस्तं वा भाण्डकं प्रत्युपेक्षते / कथमेतत्सर्व करोतीत्यत आह कुवितेत्यादि, यथाकोपि कुपित प्रिय बांधवस्ययत्करणीयंतत्सर्वे तुष्णीकः करोति, एवमितरोप्यनुपरिहारिक स्तूष्णीका सन् सर्वे करोति, अहःपराह. अवसो व रायदंडो न ए य एवं तु होइ पच्छित्तं / संकरसरिसवसगडे भंडववत्थेण दिट्रंतो // 366 // ___अवसो इत्यत्र प्रथमा तृतीयार्थे आपत्वात्ततोऽयमर्थः-यथा राजदण्डोऽवश्यमवशेनापि चोढव्यः, किमेवमध्यवसायं कृत्वा प्रायश्चित्तं वोढव्यमुतान्यदालम्बनं कृत्वा / सरिराह-नएवं राज्यदण्डन्यायेन वोढव्यं किं तु चरणविशुद्धिनिमित्तमेतत् प्रायश्चित्तमित्येवमध्यवसायेन भवति प्रायश्चित्तं वोढव्यम् / अथवा यथा राजदण्डोऽवश्यमवशेनाप्युह्यते यदि पुनर्नेतिनोह्यते ततः शरीरविनाशो भवति / एवशब्द एवं शब्दात्परतो द्रष्टव्यः / एवमेव राजदण्डन्यायेनैव प्रायश्चित्तमप्यवश्यं भवति वोढव्यं, / तद्बहनाभावे चारित्रशरीरविनाशापत्तेः, / पुनरप्याह-प्रभूतं प्रायश्चित्तस्थानमापनमुद्यतां किं स्तोकमापन्नमुह्यते न खलु किमपि तावता प्रायश्चित्तस्थानेनापनेन भवति / अत्र आचार्यः प्राह-संकरेत्यादि, पश्चाध सङ्करस्तृणाद्यवकरस्तेन तथा सर्पपाः प्रतीताः सर्पपग्रहणं पाषाणोपलक्षणं ततोऽयमर्थः-शकटे पाषाणेन मण्डपे सर्षपेण चात्र दृष्टान्तस्तथा हि-यथा सारण्या क्षेत्रे पाय्यमाने सारणिस्रोतसि तृणशूकमेकं तिर्यग् लग्नं तै पनीतं तनिश्रया अन्यान्यपि तृणशकानि लग्नानि तन्नि For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy