________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युग्माभिरप्येष सूत्रार्थादौ न पृष्टव्यस्तथा युष्माभिः सह नैष सूत्रमर्थ वा परिवर्तयिष्यति / नापि युष्माभिरनेन सह सूत्रादि परिवर्तनीय, / तथैव कालवेलादिषु युष्मानोत्थापयिष्यति, युष्माभिरप्येष नोत्थापयितव्यस्तथा न चन्दनं युष्माकमेष करिष्यति, नापि युष्माभिरेतस्य कर्तव्यम् / तथा उच्चारप्रस्रवणखेलमात्रकाण्येष युष्मभ्यं न दास्यति, नापि युष्माभिरेतस्मै दातव्यम् / तथा न किञ्चिदुपकरणमेष युष्माकं प्रतिलेखयिष्यति / नापि युष्माभिरुपकरणमेतस्य प्रतिलेखनीयं / यथा नैव युष्माकं सङ्घाटकमावं यास्यति, न च युष्माभिरेतस्य संघाटकैर्भवितव्यम् / तथा न युष्मभ्यमेष भक्तं पानं वा आनीय दास्यति, न च युष्माभिरेतस्यानीय दातव्यम् / तथा नायं युष्माभिः सह भोक्ष्यते, नापि युष्माभिरेतेन सह भोक्तव्यम् / तथा कल्पे समाचारात्तस्मात् पालापने प्रतिप्रच्छन्ने परिवर्तने उत्थापने वन्दने वन्दनदापने मात्रे उच्चारप्रस्रवणखेलमात्रकानयने प्रतिलेखने सङ्घाटके संघाटककरणे भक्तदाने संभोजने च सह भोजनविषये व्याघातो न कर्तव्य इति सम्बन्धः / आलापनादिभिर्व्याघातो न कार्य इत्यर्थः। एवमेतैर्दशभिः पदैर्गच्छेन स परिहतः सोऽपि गच्छमेतैः पदैः परिहरति, यदि पुनर्गच्छवासी एतानि पदान्यतिचरति तत इदं प्रायश्चित्तम् / संघाडगो उजावय लहुमोमासो दसण्ह उपयाण। लहुगा य भत्तपाणे, संभोजणे होत अणुग्घाया॥३६५॥ दशानां पदानां मध्ये आलापनापदादारभ्य यावदष्टमं पदं संघाटकरूपं तावदेकैकस्मिन् पदेऽतिचर्यमाणे लघुको मासः प्रायश्चित्तं, यदि पुनर्भक्तं पानं च गच्छवासिनः प्रयच्छन्ति / ततो भक्तदाने भक्तपानदानविषये लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तं, संभोजने सह भोजने भवन्त्यनुद्घाताः चत्वारो गुरुमासा इत्यर्थः / साम्प्रतमेतेष्वेव पदेषु परिहारिणः प्रायश्चित्तमाह For Private and Personal Use Only