________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव-1 हारसूत्रस्य पीठिका नंतरः। // 30 // अणुपरिहारीत्यपि शब्दसंस्कारः / तत्रायमन्वर्थः-परिहारिणोऽणु स्तोकं प्रतिलेखनादिपु साहाय्यं करोतीत्यणुपरिहारी / तत्र यदि पूर्व कृतपरिहारोऽनुपरिहारी न लभ्यते / ततस्तस्य असति अभावे इतरोऽपि अकृतपरिहारतया अपि दृढदेहो दृढसंहननो गीतार्थोऽनुपरिहारी स्थाप्यते / एवं कल्पस्थितमनुपरिहारिणं च स्थापयित्वा स्थापना स्थापनीया / तां च स्थापना स्थापयन्नाचार्यः शेषसाधूनिदं वक्ति, एस तवं पडिवजइन किंचि पालवति माय बालवह / अत्तचिंतगस्सा वाघातोभे न कायठवो॥३६॥ | आचार्यः समस्तमपि सबालवृद्धं गच्छमामन्त्र्य ब्रूते-एष साधु परिहारतपः प्रतिपद्यते / ततः कल्पस्थितिरेषा न किञ्चि साधुमितरं वा आलापयति, वर्तमानसमीपे वर्तमानवद्वेति वचनतो भविष्यति वर्तमाना ततोऽयमर्थः-न किञ्चिदालापयिष्यति, मा च यूयमपि एनमालापयथ, आलापयिष्यथ / तथा आत्मन एव केवलस्यार्थ भक्तादिलक्षणं चिन्तयति, / न बालादीनां तथा कल्पसामाचारादित्यात्मार्थचिन्तकः, / यदि वा आत्मार्थो नाम अतीचारमलीनस्यात्मनो यथोक्तेन प्रायश्चित्तविधिना निरतिचारकरणं विशोधनमित्यर्थः, / तं चिन्तयन्तीत्यात्मार्थचिन्तकः / तस्य भे-भवद्भिरेतैः पदैर्व्याघातो न कर्तव्यः / तान्येव पदान्याहआलावण पडिपुच्छण परियडुहाण वंदणग मत्ते / पडिलेहण संघाडग भत्तदाण संभुंजणा चेव // 36 // एष न किश्चिदप्यालापयिष्यति, युष्माभिरप्येष नालापयितव्यः / तथा सूत्रमर्थमन्यद्वा किश्चिदेष न युष्मान् प्रक्ष्यति, For Private and Personal Use Only