________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir नद्या अनुश्रोतसोह्यमानो भयमायासीत् / ततः स तटस्थैराश्वास्यते / आश्वासितः सन् स्थाघां प्रामोति अनाश्वासितो निराशो भयेनैव म्रियते, यथा वा कस्यचित् राजा रुष्टः ततः स भीतो नूनमहं मारयिष्ये / ततः सोऽन्यैराश्वास्यते 'मा मैवयं राजानं विज्ञापयिष्यामो, न च राजाऽपन्यायं करोति / एवं पारिहारिक आश्वासनीयः, आश्वासनादानेन च तस्मिन् भीते मा समंतात् स्वस्थे जाते अधिकृते तपसः प्रतिपत्तिः क्रियते / सम्प्रति कायोत्सर्गकरणाय कारणान्तरमाहनिरुवसगं निमित्तं भयजणणट्राए सेसगाणं च / तस्सप्पणो य गुरुणो य साहूए होइ पडिवत्ती // 361 // | कायोत्सर्गकरणमादौ निरुपसर्गनिमित्तं निरुपसर्ग परिहारतपः समाप्तिं यायादित्येवमर्थ, तथा शेषाणां साधूनां भयजननार्थं / यथामुकमापत्तिस्थानमेष प्राप्त इत्यस्मै महाघोरं परिहारतपो दास्यते, तस्मात्रैतदापत्तिस्थान सेवनीयं, किन्तु यत्नतो रक्षणीयमिति / ततः कायोत्सर्गकरणानन्तरं तस्य परिहारतपः प्रतिपत्तुर्गुरोश्च साधकोऽनुकून्ले शुभे तिथिकरणमुहूतादिके शुभे ताराबले शुभे च चन्द्रबले परिहारतपसः प्रतिपत्तिर्भवति / अन्यच्च कायोत्सर्गकरणानन्तरमादावेव तं पारिहारिकमिदं गुरु—तेकप्पद्वितो अहं ते, अणुपरिहारीय एस ते गीतो। पुव्वं कयपरिहारो, तस्सासितियरोवि दढदेहो॥३६२॥ ___ यावत्तव कल्पपरिहारसमाप्तिस्ताबदहं तव कल्पस्थितः वन्दनवाचनादिषु कल्पभावे स्थितो न तु परिहार्यः, शेषाः पुनः साधवः परिहायो / अन्यच्च एष साधुर्गीतो गीतार्थः पूर्व कृतपरिहारः, कृतपरिहारत्वेन सकलसामाचारी ज्ञाता तवानुपरिहारी यत्र यत्र भिक्षादिनिमित्तं परिहारी गच्छति तत्र तत्र अनु पश्चात् पृष्टतो लग्नः सन् गच्छतीत्यनुगच्छतीत्यनुपरिहारी अथवा For Private and Personal Use Only