________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie MAN श्री व्यवहारपत्रस्य पीठिकाs- तृतीयो विभागः! नंतरः।। // 26 // तपो देयं / तस्यायं विधिः / ठवहजं ठवइत्ता यत्तेन सह नाचरणीयं तत् स्थापनीयमुच्यते तत्सकलगच्छसमक्ष स्थापयित्वा कथं स्थापयित्वेत्यत आहविउस्सगो जाणणट्टा, ठवणातीएसु दोसुठविएसु। अगडे नदीयरायादिद्रुतो भीय बासत्थे // 36 // परिहारतपोदानात प्राक् आदावेव कायोत्सर्गः क्रियते / कथमिति चेदुच्यते गुरुः पूर्वदिगभिमुख उत्तरदिगभिमुखो वा चरन्ती दिगभिमुखो वा चैत्यानां चाभिमुख एवं परिहारतपस्थोपि नवरं गुरोवामपार्थे ईषत् पृष्टतस्तौ द्वावपि भणतः परिहारतवपवजावणठा करेमि काउस्सग्गं निरुवसग्गवत्तिमाए सद्धाए मेहाए धिइए धारणाए जाव वोसिरामि / पणवीसुस्सासकालं सुभज्झवसायी चउवीसत्थयं वा चिंतेउं नमोकारेण पारेता अक्खलियं चउवीसत्थयं उच्चरंति / अत्र शिष्यः प्राह-किमर्थमेष कायोत्सर्गः क्रियते ? उच्यते जाणणट्ठा-साधूनां परिज्ञानार्थमथवा निरुपसर्गनिमित्तमेतच्चानन्तरगाथायां वक्ष्यति, / ठवणति-कल्प स्थितम अनुपारिहारिकस्य च स्थापना कर्तव्या, / ततो दोसु ठविएसुत्ति कम्पस्थिते अनुपारिहारिके च स्थापिते सति स पारिहारिकः कदाचिद्भीतो भवेत् कथमहमालापनादिपरिवर्जितः सन्ः उग्रं तपः करिष्यामीति, तत एवं स भीतः समाश्वासयितव्यः / तत्रावटः कूपो नदी सरित् राजा च दृष्टान्तस्तथाहि / यथा कोऽप्यवटे पतितः सन् भयमगमत् कथमुत्तरिष्यामि ततः स तटस्थैः आश्वास्यते / मा भैस्त्वं वयंत्वामुत्तारयिष्यामः / तथा च रज्जुरियमानीता वर्तते इति / एवमाश्वासितो निर्भयः सन्स्थैर्य वनाति / यदि पुनस्त्तं प्रत्येवमुच्यते 'मृत एप वराको न एतं कोऽप्युत्तारयिष्यति ततः स निराशः सन्नंगं निस्सहं मुक्त्वा म्रियते / ततः स यथा नियमत आश्वासनीयस्तथा पारिहारिकोऽप्याश्वासनीयः, यथा वा कोऽपि For Private and Personal Use Only