SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धतपः / अत्र दृष्टान्तमाहवमणविरेयणमाई कक्वकिरिया जहाउरे वलिए। कीरइ न दुब्बलंमी, वह दिटुंतो भवे दुविहो // 358 / / __यद्यपि द्वावपि पुरुषौ सदृशरोगाभिभूतौ तथापि तयोर्मध्ये य आतुरः शरीरेण बलवान् तस्मिन् बलिके यथा वमनविरेचनादिका कर्कशक्रिया क्रियते, न तु दुर्बले तस्मिन् यथा सहते तथा अकर्कशा क्रिया क्रियते / अहत्ति एष दृष्टान्तस्तपसि द्विविधे परिहारशुद्धतपोलक्षणे / इदमुक्तं भवति / अयमत्रोपसंहारो बलवत्यातुरे कर्कशक्रियेव धृतिसंहननसम्पन्ने परिहारतपो दीयते, बलहीनेत्वकर्कशक्रियेव धृतिसंहननविहीने शुद्धतप इति, / सम्प्रति येभ्यो नियमतः शुद्धतपः परिहारतपो वा शुद्धतपः परिहारतपो योग्यापत्तिस्थानापत्तौ तपो देयम् / तत्प्रतिपादनार्थमाहसुद्धतवो अजाणं अगियत्थे दुब्बले असंघयणे। धितिबलिए य समन्ना गएय सम्वेसिं परिहारो॥३५६।। ___परिहारतपो योग्येऽप्यापत्तिस्थाने समापतिते आर्याणामार्यिकाणां शुद्धतपो देयमार्यिकाणां धृतिसंहननदुर्बलतया पूर्वोऽनाधिगमाच्च परिहारायोग्यत्वात् / तथा यो गीतार्थो यश्च धृत्या दुर्बलो रोगादिना वा अनुपचितदेहो दुर्बलो यश्चासंहननआदिमानां त्रयाणां संहनानामन्यतमेनापि संहननेन विकल एतेभ्योऽपि सर्वेभ्यो नियमतः शुद्धतपो दातव्यमगीतार्थत्वादिना परिहारायोग्यत्वात् यः पुनः धृत्या बलिको बलवान् वज्रकुड्वसमानो यश्च समन्वागत-आदिमानां त्रयाणां संहननानामन्यतमेन संहननेन गीतार्थत्वादिगुणैश्च युक्त एतेभ्यः सर्वेभ्योऽपि नियमतः परिहारतपो योग्यापत्तिस्थानप्राप्तौ परिहारः परिहार For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy