________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः / श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 28 // गुणसमृहयुक्तस्य परिहारतपो दीयते / एतद्गुणविहीनस्य पुनः शुद्धं तपो देयम् / अत्र शिष्य पृच्छतिएयगुणसंजुयस्स उकिं कारणदिज्जए उ परिहारो। कम्हा पुण परिहारोन दिज्जए तठिवहूणस्स 355 // ___ भगवन् ! कि कारणमेतैरनन्तरोदितैर्गीतार्थत्वादिभिर्गुणैर्युक्तस्य परिहारः परिहारतपो दीयते, / कस्मात्पुनस्तद्विहीनस्य गीतार्थत्वादिगुणविकल्पस्य परिहारो न दीयते ? अत्राचार्यो द्वौ मण्डपो दृष्टान्तीकरोति-शैलमण्डपमेरण्डमण्डपं च / तथा चाह___ जं माइ ततं छुपभइ सेलमंडवेन एरंडे / उभयवलियंमि एयं, परिहारो दुब्बले सुद्धो // 356 // शैलमये पापाणमये मण्डपे यत्किमपि माति तत्सर्व छुभ्यते प्रक्षिप्यते / तस्य तावत्यपि प्रचिते मङ्गासम्भवात् / एरण्डे एरण्डमये पुनर्मण्डपे यन्माति न तत्सर्व प्रक्षिप्यते भङ्गसम्भवात् , किन्तु यावत्क्षमते तावत् प्रक्षिप्यते / एवं उभयेन धृत्या शरीरसंहननेन च चलिके बलिष्टे गीतार्थत्वादिगुणयुक्त परिहारः परिहारतपो दीयते / दुर्बले धृत्या संहननेन वा उभयेन वा बलविहीने शुद्धतपो दीयते / एते च परिहारशुद्धतपसी तुल्यायामप्यापत्तौ पुरुषविशेषाश्रयणेन दीयते / तथा चाहअविसिठा पावत्ती सुद्धतवे चेव तहय परिहारे। वत्थु पुण श्रासजा दिजइ इयरो वश्यरो वा॥३५७॥ शुद्धतपसि दातुमिष्टे परिहारे च अविशिष्टा तुन्या आपत्तिस्तथापि वस्तुधृतिसंहननसम्पन्नं पुरुषवस्तु भासाद्य अपेक्ष्य | इतरत् परिहारतपो दीयते / धृतिसंहननविहीनं पुनः पुरुषवस्तु आसाद्य इतरत् शुद्धतपो दीयते / किमुक्तं भवति / यद्यपि द्वावपि जनौ तुल्यमापत्तिस्थानमापनौ तथापि यो धृतिसंहननसम्पन्नस्तसै परिहारतपो देयमितरस्मै तुल्यायामप्यापत्तों // 28 // For Private and Personal Use Only