SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदपि कृत्स्नमनुग्रहकृत्लेन निरनुग्रहकृत्स्नेन वा तत्रैव पूर्वप्रस्थापिते प्रायश्चित्ते आरोहयितव्यं स्यात् चढापयितव्यमित्यर्थः / एष संक्षेपतः सूत्रार्थः व्यासार्थ तु भाष्यकारो वदन् जे भिक्खू इत्यादि सूत्रावयवस्य व्याख्यानमतिदेशत आहजे च्चिय सुत्तिविभासा हेदिल्लसुयंमि वलिया एसा / स च्चिय इहंपि नेया नाणत्तं ठवणपरिहारे // 349 // या चैषा सूत्रविभाषा जे भिक्खू इत्यादिसूत्रावयवव्याख्या एकद्विककादिसंयोगोपदर्शनरूपा अधस्तनसूत्रे अनन्तरोदितसूत्रे वर्णिता / सैव इहापि अस्मिन्नपि सूत्रे वर्णयितव्या यदि सैव वर्णयितव्यास्ततः को विशेषः ? तत आह-नानात्वं पूर्वसूत्राद्विशेषः स्थापनापरिहारे, / इयमत्र भावना-अधस्तनसूत्रे परिहारतपो नोक्तमिह तु परिहारतपो विभाव्यते इति तत्र येन वक्तव्यक्रमेण परिहारतपो वक्तव्यं भवति / तद्वक्तव्यक्रमसंसूचिका द्वारगाथामाहको भंते परियाओ सुत्तत्थाभिग्गहो तवो कम्म। कक्खडमकक्खडे वा सुद्धतवे मंडवादोणि // 350 // प्रथमतः परिहारतपो योग्यता परिज्ञानाय को भदन्त त्वमसीति पृच्छा कर्तव्या / तदनन्तरं परिहारतपो योग्यस्य पर्यायो वाच्यः / ततः सूत्रार्थों तदनन्तरमभिग्रहस्ततस्तपः कर्म तत्र यदि तपसा कर्कशो भवति / किमुक्तं भवति ? कर्कशे तपसि सदा कृताभ्यासतया न कर्कशेन तपसा परिभूयते / ततः परिहारतपस्तसै दीयते / इतरस्मिस्त्वकर्कशे शुद्धं तपः / अत्रार्थे द्वौमण्डपावेरण्डशिलानिष्पन्नौ दृष्टान्तौ। एष द्वारगाथासंक्षेपार्थः। व्यासार्थ तु प्रतिद्वारं विवक्षुः प्रथमतः पृच्छाद्वारं विवृणोति // सगणंमिनस्थि पुच्छा, अन्नगणा आगतं तुजं जाणे / अण्णायं पुण पुच्छे परिहारतवस्स जोगट्टा // 351 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy