________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1* हारसूत्रस्य पीठिकानंतरः। प्रतिकुश्चनाप्रतिकुञ्चनाम्यां चतुर्थभङ्गी कृता तामेवाह-अपलिउंचिए अपलिउंचियमित्यादि / यदा अपराधानापन - तृतीयो आलोचनाभिमुखस्तदैवं कश्चित्संकल्पितवान् , यथा सर्वेप्यपराधा मया आलोचनीयाः। एवं पूर्वसंकल्पकालेप्रतिकुश्चिते विभागः। आलोचनवेलायामप्रतिकुश्चितमालोचयति / एष प्रथमो भङ्गः। तथा पूर्व संकल्पकालेप्रतिकुश्वितमालोचनावेलायां तु प्रतिकुञ्चितमालोचयतीत्येष द्वितीयः / पूर्व संकल्पकाले केनापि प्रतिकुश्चितं यथा न मया सर्वेऽपराधा आलोचनीयाः। एवं पूर्व संकल्पकाले प्रतिकुश्चिते आलोचनावेलायां भावपरावृत्तेः सर्वमपि अप्रतिकुञ्चितमालोचयति / एष तृतीयो भङ्गः / तथा पूर्व सङ्कल्पकाले केनापि प्रतिकुश्चितं यथा न मया सर्वे अपराधा आलोचनीयाः / तत एवं संकल्पकाले प्रतिकुश्चिते आलोचनावेलायामपि प्रतिकुश्चितमेवालोचयति / एष चतुर्थो भङ्गः। तत्राप्रतिकुश्चितमालोचयतो वीप्सा साकल्येन व्याप्ता भवति / ततोऽयमों निरवशेषमालोचयतः सर्वमेतद्यदापनमपराधजातं, यदि वा कथमपि प्रतिकुश्चना कृता स्यात्ततः प्रतिकुश्चनानिपन, यच्च गुरुणा सहालोचनावेलायां समासनोच्चासननिष्पन्न या चालोचनाकाले असमाचारी तनिष्पन्नं च सकलमेतत् स्वयमात्मना अपराधकारिणा कृतं स्वकृतं साहणिया इति संहत्य एकत्र मीलयित्वा यदि संचयितं प्रायश्चित्तस्थानमापनस्ततः पाण्मासिकं प्रायश्चित्तं दद्यात् / यत्पुनः पाण्मासातिरिक्तं तत्सर्व झोषयेत् / अथ मासादिकं प्रायश्चित्तमापनस्ततस्तदेव देयमिति, वाक्यशेषः, / जे एयाइ इत्यादि यः साधुरेतयानन्तरोदितया पाण्मासिक्या मासिक्यादिकया वा प्रस्थापनायाः प्राक्कृतस्यामपराधस्य विषये स्थापना प्रायश्चित्तदानप्रस्थापना तया प्रस्थापितः प्रायश्चित्त करणे प्रवर्तितो निर्विशमानस्ततः प्रायश्चित्तमुपभुञ्जानः कुर्वाण इत्यर्थः / यत्प्रमादतो विषयकषायादिभिर्वा प्रतिसेवते ततस्तस्यां प्रतिसेवनायां यत्प्रायश्चित्तं सेवते // 26 // For Private and Personal Use Only