SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरणीयं / तत् स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालापन परिवर्तनादि तत् सकलगच्छ समक्षं स्थापयित्वा कम्पस्थितेनानुपरिहारिकेण च यथायोगमनुशिष्टयपालम्भोपग्रहरूपं वक्ष्यमाणवैयावृत्त्यं करणीयं / ताभ्यां क्रियमाणेऽपि वैयावृत्ते स्थापितेऽप्यालापनादौ कदाचित् किमपि प्रतिसेवित्वा गुरोः समीपमुपतिष्ठेत् / यथा भगवन् अहममुकं प्रायश्चित्तस्थानमापन्नस्ततः सेवित्ति तदपि कृत्स्नं परिहारतपसि उद्यमाने आरोहयितव्यं, आरोपणीयं स्यात् / स्यादित्यव्ययमत्रावधारणे आरोहयितव्यम् / केवलं तत्कृस्नमारोपयितव्यमनुग्रहकृत्लेन निरनुग्रहकृत्लेन तस्य प्रतिसेवितस्य गुरुसमक्षमालोचनायां चतुर्भगी, तामेवाह-पुव्वं पडिसेवियमित्यादि / पूर्वमिति पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूति द्रष्टव्यं / ततोऽयमर्थ:-गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या लघुपंचकादिक्रमेण प्रतिसेवितं पूर्व पूर्वानुपूर्व्या प्रतिसेवनानुक्रमेणेतिभावः आलोचितं एष प्रथमोभंगः, तथा पूर्व गुरुलघुपर्यायलोचनया पूर्वानुपूर्व्या मासलघुकादि प्रतिसेवितं तदनन्तरं च तथाविधान्पप्रयोजनोत्पत्ती गुरुलघुपर्यालोचनयैव लघुपश्चकादि प्रतिसेवितं, आलोचनाकाले तु पश्चात् पश्चानुपूर्व्या आलोचितं पूर्व लघुपश्चकाद्यालोचितं पश्चात् लघुमासादीति भावः, / एप द्वितीयो भङ्गः। तथा पश्चात् अनुपूच्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितं पश्चात् लघुपश्चकादीति भावः / आलोचनावेलायामनुपूा आलोचितं पूर्व लघुपञ्चकाद्यालोचितं पश्चात् गुरुमासादीत्यर्थः / एषस्मृतीयो भङ्गः। तथा पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितो यथा कथंचन प्रतिसेवितमिति भावः / पश्चात् पश्चादनुपूा आलोचितं प्रतिसेवनानुक्रमेणैवालोचितमथवा स्मृत्वा स्मृत्वा यथा कथश्चनाप्यालोचितमित्यर्थः / एष चतुर्थो भङ्गः। इह प्रथमचरमभंगावप्रतिकुश्चनायां द्वितीयतृतीयभङ्गो प्रतिकुश्चनायामिति, For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy