________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विंशत्युत्तरं शतं // 120 // तच्चैवम्-पञ्चचत्वारिंशत् अष्टकेन गुणिता जातानि त्रीणि शतानि षष्ट्यधिकानि 360, एतेषां त्रिकेनाधस्तनेन भागो ह्रियते / लब्धं विशं शतं 120 / चतुष्कसंयोगे भड़कानां द्वेशते दशाधिके 210 / तथाहि-त्रिकसंयोगे लब्धं विशं शतं प्रति राशीक्रियते / प्रतिराश्योपरितनेन सप्तकेन गुण्यते, जातानि अष्टौ शतानि चत्वारिंशदधिकानि 840 / तेषामधस्तनेन चतुष्केण भागो ह्रियते / लब्धे द्वे शते दशोत्तरे / एवं सर्वत्र भावना कार्या / पञ्चकसंयोगे भङ्गकानां द्वे शते द्विपञ्चाशदधिक 252, षट्कसंयोगे दशोत्तरे द्वे शते 210, सप्तकसंयोगे विंशत्युत्तरं शतं 120, अष्टकसंयोगे पञ्चचत्वारिंशत् 45, नवकसंयोगे दश 10, दशकसंयोगे एकः 1 / सर्वसङ्घचया भङ्गानां त्रयोविंशं त्रयोविंशत्य धिकं सहस्र। अदुव-अथवा अनेके इतोऽप्यतिप्रभूतसंख्याकाः प्रतिसेवना ज्ञातव्याः। कथमिति चेदुच्यते-एता हि * अनन्तरोदिताः प्रतिसेवनाः सामान्यत उक्तास्तत एता एव भूय उद्घातविशेषण विशिष्टा ज्ञातव्याः / एता एव चानुद्घात- / विशेषणविशिष्टास्तदनन्तरमनेका उद्घातानुद्घातसंयोगविकल्पत / ततः सर्वा अपि पिण्डीकृत्य मूलगुणोत्तरगुणापराधाभ्यां गुणयितव्यास्ततो दर्पकल्पाभ्यामेवमनेका भवन्ति / अथवा अनेकप्रतिसेवानयनामियं त्रिंशत्पदात्मका रचना कर्तव्याः। मासिकं 1 पञ्चदिनातिरेकमासिकं 2 दश दिनातिरेकमासिकं 3 पञ्चदशदिनातिरेकमासिकं 4 विंशतिदिनातिरेकमासिकं 5 भिन्नमासातिरेकमासिकं 6 / एवं द्वैमासिकत्रैमासिकचातुर्मासिकञ्चमासिकेषु प्रत्येकं षट् षद् स्थानानि वेदितव्यानि / एवं षद् कानि त्रिशदेतेषु च त्रिंशतिपदेषु करणमनन्तरोदितं प्रवयितव्यम् / तत्र सर्वेषामागतफलानामेकत्र संपिण्डनेनेयं सूत्रसंख्या कोडिसय सत्तहियं सत्ततीसंच होंति लक्खाई। एयौलीस सहस्सा अठसयाहियतेवीसी // 353 // For Private and Personal Use Only