SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विंशतीनां गुरुलघुभेदभिन्नानां द्विकादिसंयोगादशकैकसंयोगपर्यन्ताः सर्वे वक्तव्यास्ततः परमेवं मास गुरु पंचकंचा मुशता वक्तव्याः / एवं द्वैमासिकादिस्थानेष्वपि प्रत्येकं संयोगतश्च पञ्चकादीनां सर्वे संयोगाः कर्तव्याः। एवमनेकसंयोगात्मक सूत्रमेवं दशमसूत्रमपि बहुशः सकलबहुशः सातिरेकसंयोगरूपं वक्तव्यं / तत्र येषु स्थानेषु पञ्चकं भवति तानि स्थानान्युपदर्शयति / ससणिद्ध वीयघट्टे काएसु मीसाएसु परिट्ठविए। इत्तरसुहुमसरक्खे पणगा एमाइया होति // 34 // सस्निग्धे हस्ते मात्रके वा सति तेन भिक्षाग्रहणेन तथा चीजघडे बीजकायसंघट्ट कुर्वत्याः सकाशात् भिवादाने, तथा कायेषु परिचकायेषु सचित्तेषु मिश्रेषु सचित्ताचित्तरूपेषु परीत्तकायेषु परिस्थापिते परंपरस्थापिते इतरस्मिन् वा अनन्तरस्थापित गृह्यमाणे तथा सुहुमत्ति सूक्ष्मप्राभृतिकाग्रहणे सरक्खत्ति सरजस्केन हस्तेन मात्रकेन वा भिक्षाग्रहणे सर्वत्र पञ्चकं भवतीति वाक्यशेषः / किमतेष्वेव स्थानेषु पञ्चकं भवति किं चान्येष्वपि इति चेत् उच्यते, अन्येष्वपि तथा चाह-पणगाएमाइया होति पञ्चकान्येवमादीनि एवमाद्यपराधहेतुकानि भवन्ति / एवमादिष्वन्येष्वप्यपराधेषु पञ्चक-द्रष्टव्यमिति भावार्थः / साम्प्रतमालोचनार्हस्य यथा पश्चकादि परिज्ञानं यथा च प्रायश्चित्तदानविधिः तथा प्रतिपादयति. ससणिद्धमादि अहियं, पारोक्खी सोच्च देंति अहियं तुहीणाहिय तुलं वा नाउंभावं तु पञ्चक्खी॥३४५॥ परोक्षेषु विषयेषु भवं पारो परोक्षविषयं ज्ञानं तदस्यास्तीति परोक्षी श्रुतव्यवहारी, शय्यातरपिण्डादेरधिकं सस्निग्धादि आलोचकमुखात् श्रुत्वा मासं पञ्चकादिभिरधिकमेव तुरेवकारार्थः ददति प्रयच्छन्ति / आलोचकमुरवात् श्रवणानुसारतः For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy