________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदेव बहुशः शब्दविशिष्टं बहुशः सातिरेकसंयोगसूत्रं / तत्र सातिरेकाणि पश्च पदानि, तद्यथा-सातिरेकं मासिकं 1, सातिरेकं द्वैमासिकं 2, सातिरेकं त्रैमासिकं 3 सातिरेकं चातुर्मासिकं 4, सातिरेक पाश्चमासिक 5 / पञ्चानां च पदानां द्विकसंयोगे भंगा दश, त्रिकसंयोगेऽपि दश, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे एकः। एते च तृतीय चतुर्थसूत्रचिन्तायामिव भावनीयाः / सर्वसंख्यया भङ्गाः षड्विंशति,। एवमेव षड्विंशतिभङ्गा बहुशः सातिरेकं संयोगसूत्रेऽपि भावनीयाः। उभयमीलने भङ्गा द्वापश्चाशत् / पञ्चसूत्राणि पञ्चमे सातिरेकसूत्रे पञ्चसूत्राणि षष्ठे बहुशः सातिरेकसूत्रे तान्यप्यत्र मीलितानि जातानि सर्वसंख्यया द्वाषाष्टिसूत्राणि 62 / एतानि च उद्घातानुद्घातविशेषरहितानि तत एतावन्त्येवोद्घातविशेषपरिकल्पितान्यन्यानि सूत्राणि द्रष्टव्यानि 62 / एतावन्त्येव चानुद्घातविशेषपरिकल्पितान्यपि 62 / एवमेतास्तिस्रो द्वापष्टयः सूत्राणां सर्वसंख्यया षडशीतसूत्रशतं 186 / अत ऊर्ध्वं तु उद्घातानुद्घातमिश्रकाभिधानतः संयोगसूत्राणि भवन्ति तत्सूचनार्थमिदमुत्तरार्द्धमाह-संयोगा कायब्वा इत्यादि / गुरवश्च लघवश्च गुरुलघवस्ते च ते मिश्राश्च गुरुलघुमिश्रास्तैरनेक संयोगा भवन्ति कर्तव्याः / ते चैवमुच्चारणीयाः-जे भिक्खू सातिरेगउग्यायमासियं वा सातिरेगअणुग्घायमासियं वा परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय मालाएमाणस्स सातिरेगमुग्धायमासियं वा साइरेगमणुग्धायमासियं वा पलिउंचिय आलोएमाणस्स सातिरेगमुग्घायदोमासियं वा सातिरेगमणुग्घायदोमासियं वा / जे भिक्ख सातिरेकमुग्धायमासियं वा सातिरेगमणुग्धाय दोमासियं वा परिहारट्ठाणं पडिसविता / इत्येवमुद्घातितपदममुञ्चता अनुद्घातद्वैमासिकादीन्यपि वक्तव्यानि, / एवमेते भङ्गाः पञ्च एते उद्घातमासिके अनुद्घातमासिकद्वैमासिकाद्यकसंयोगेन लब्धाः / एवमुद्घातिते द्वैमासिकेपि पंच For Private and Personal Use Only