________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठियानंतरः। // 21 // एवं त्रैमासिकेऽपि पश्च चातुर्मासिकेऽपि पश्च पाश्चमासिकेऽपि पञ्चेत्युभयोरप्येककसंयोगेन सर्वसंख्यया भङ्गाः पञ्चविंशतिः, तथा उद्घातसातिरेकमासिक एवमनुद्घातसातिरेकमासिकद्वैमासिकादिद्विकसंयोगे भङ्गा दश, एवमुद्घातितेऽपि सातिरेके द्वैमासिके त्रैमासिके चातुर्मासिके पाश्चमासिके च प्रत्येकं दश दशेति सर्वसंख्यया उद्घातितककसंयोगे अनुद्घातितद्विकसंयोगेभङ्गाः पञ्चाशत् / एवं तृतीयसूत्रानुसारतो भङ्गास्तावद्वाच्या यावत्सर्वसंख्यया भङ्गानां नवशतान्येकपट्यधिकानि 161 भवन्ति, एतावन्त एव च 661 भङ्गका अष्टमेऽपि / बहुशः सातिरेक संयोगसूत्रे भवन्ति पडशीतं शतं सूत्राणां प्राक्तनमिति सर्वसंख्यया पङचमषष्टसप्तमाष्टमसूत्रेषु सूत्राणामेकविंशतिशतान्यष्टोत्तराणि भवन्ति 2108, / एतानि च मूलगुणापराधाभिधानेन च उत्तरगुणापराधाभिधानेन च प्रत्येकं वक्तव्यानीत्येष राशिभ्यां गुण्यते जातानि द्वाचत्वारिंशतशतानि षोडशोत्तराणि 4216 / एतानि च दप्तः कल्पतो वाप्ययतनया भवन्तीति द्वाभ्यां गुण्यन्ते जातानि अष्टौ सहखाणि चत्वारि शतानि द्वात्रिंशदधिकानि 8432 / एतावन्त्येव चादिमेषु चतुर्प अपि सूत्रेषु सूत्राणि भवन्ति इत्यष्टास्वपि सूत्रेषु सर्वसंख्यया सूत्राणां षोडशसहस्राण्यष्टौ शतानि चतुःषष्ट्यधिकानि भवन्ति 16864 / नवमं सूत्रं सकलस्य सातिरेकस्य च संयोगात्मकं / तत्र सकलसंयोगामासिकद्वैमासिकादिसंयोगाः सातिरेकसंयोगा लघुगुरुपञ्चकदशकादिसंयोगाः। तत्र प्रथमतो लघुगुरुरहितः पञ्चकादिसूत्राणि केवलान्युपदर्श्यन्ते-'जे भिक्खू पणगातिरेगं मासियं परिहाणठाणं पडिसेविचा आलोएन्जा' इत्यादि / जे भिक्खू दशगातिरेगं मासियं परिहारट्ठाणं पडिसेवित्ता इत्यादि / एवं पञ्चदशकेन विंशत्या पञ्चविं | शत्या च सातिरेकसूत्राणि मासिकविषयाणि च वकव्यानि / एवमेव प्रत्येकं द्वैमासिकत्रैमासिकचातुर्मासिकपांचमासिकविष // 21 // For Private and Personal Use Only