________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः / श्री व्यवहारसूत्रस्य पीठकाऽनंतरः। // 20 // रेगमासियं पलिउंचियालोएमाणस्स सातिरेगदोमासियं' इदं पश्चमसूत्रे प्रथमसूत्रम् , अत्र मासिकस्य सातिरेकतां पूर्वार्द्धन व्याख्यानयति-पञ्चकेन रात्रिंदिवपञ्चकेन मासोऽधिकः / दशत्ति दशभिरहोरात्रैः पक्षण, वीसत्ति विंशत्या रात्रिंदिवैर्मिनेन भिन्नमासेन पञ्चविंशत्यादिनैरित्यर्थः, तत्रपञ्चकातिरिक्तो मासो यथा केनापि शय्यातरपिण्डः सस्निग्धेन हस्तकेन मात्रकेण वा गृहीतः / तत्र मासःशय्यातरपिण्डग्रहणात् रात्रिंदिवपञ्चकं सस्निग्धेन मात्रकेण वा भिक्षाग्रहणात् रात्रिंदिवदशकेनाधिको मासो, यथा केनापि शय्यातरपिण्डः परित्तकायानन्तरनिक्षिप्तः सस्निग्धेन हस्तेन मात्रकेण वा गृहीतः। तत्र मास: शय्यातरपिण्डग्रहणात् रात्रिंदिवपञ्चकं परित्तकायान्तरनिक्षिप्तप्रहणात् द्वितीयं रात्रिंदिवपञ्चकं सस्निग्धेन हस्तकेन मात्रकेण वा मिक्षाग्रहणात् एवं पक्षाद्यतिरेकेपि भावना कार्यो / एवं द्वितीयतृतीयसूत्रादिष्वपि द्वैमासिकादीनां सातिरेकता पश्चकादिमिर्भावनीया / सूत्रपाठस्त्वेवम्-'जे भिक्खू सातिरेगं दो मासियं परिहारहाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स सातिरेगं दोमासियं पलिउंचिउं आलोएमाणस्स साइरेगं ते मासियं / जे भिक्खू सातिरेगं तिमासियं परिहारहाणमित्यादि / षष्ठमपि बहुराः शब्दविशिष्ट सातिरेकसूत्रं पञ्चसूत्रात्मकं तचैवमुच्चारणीयम्-'जे भिक्खू बहुसो सातिरेगमासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय पालोएमाणस्स सातिरेगमासियं पलिउंचियं आलोएमाणस्स सातिरेगदोमासियं जे भिक्खू बहुसो सातिरेगदोमासियं पडिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स सातिरेगं दोमासियं पलिउंचिय पालोएमाणस्स सातिरेगतेमासियमित्यादि / सप्तमं सातिरेकसंयोगसूत्रम् / अष्टमं बहुशः सातिरेकसंयोगसूत्रं / तत्र सातिरेकाणां मासिकादीनां संयोगाः सातिरकसंयोगाः / तदात्मकं सूत्रं सातिरेकसंयोगसूत्र / है // 20 // For Private and Personal Use Only