SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्बध्यते। तानेव गुणानुपदर्शयति जाति इत्यादि जातिसम्पन्नः, कुलसम्पन्ना, मातृपक्षो जातिः, पितृपक्षः कुलम् / विनयसम्पन्ना, ज्ञानसम्पन्नः, दर्शनसम्पन्न, चरणसम्पन्नः, चान्त: दान्तः अमायी अपश्चात्तापी च बोधव्यः। अथ कस्मादाज्ञोचकस्यैतावत् गुणसमूहोऽन्विष्यते ! उच्यते / जातिसम्पन्नः प्रायोऽकृत्यं न करोति, / अथ कथमपि कृतं तर्हि सम्यगालोचयति, / कुलसम्पन्नः प्रतिपन्नप्रायश्चित्तनिवाहक उपजायते / विनयसम्पमो निषद्यादानादिकं विनयं सर्व करोति, सम्यगालोचयति / ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति, / अमुकश्रुतेन मे तद्दत्तं प्रायश्चितमतः शुद्धोऽहमिति च जानीते, दर्शन संपन्नः प्रायश्चिचात् शुद्धिं श्रद्धत्ते, चरणसंपन्नः पुनरतिचारं प्रायो न करोति, अनालोचिते चारित्रं मे न शुक्ष्यतीति सम्यगालोचयति चान्तो नाम क्षमायुक्तः / स कस्मिंश्चित् प्रयोजने गुर्वादिभिः खरपरुषमपि भणितः सम्यक् प्रतिपद्यते / यदपि च प्रायश्चित्तमारोपितं तत्सम्यग् वहति / दान्तो नाम इन्द्रियनाइन्द्रियजयसम्पन्नः प्रायश्चित्ततपः सम्यक्करोति / माया अस्यास्तीति मायी, न मायी अमायी सोऽप्रतिकुश्चितमालोचयति / अपश्चात्तापी नाम यः पश्चात्परितापं न करोति हा दुष्टु कृतं मया यत् आलोचितमिदानीं प्रायश्चित्ततपः कथं करिष्यामीति किन्त्वेवं मन्यते / कृतपुण्योऽहं यत्प्रायश्चित्रं प्रतिपन्नवानिति अत ऊर्ध्वमालोचनाया दोषान् समासेन संक्षेपेण वक्ष्ये प्रतिज्ञातमेव निर्वाहयति आकंपयित्ता अणुमाणयित्ताजं दिठं वायरं च सुहुमं वा। छण्हं सदा उलयं बहुजणअव्वत्त तस्सेवी॥३४२॥ ___ आवर्जितः सन् प्राचार्यः स्तोकं मे प्रायश्चित्तं दास्यतीति बुझ्या वैयावृत्यकरणादिभिरालोचनाचार्यमाकंप्य आराध्य For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy