________________ Shri Mahavir Jain Aradhana Kendra www bath.org Acharya Si Kailassagersuri Gyanmandie तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। यत् आलोचयत्येष आलोचनादोषः।१। तथा अनुमान्य अनुमानं कृत्वा लघुतरापराधनिवेदनादिना मृदु दण्डप्रदायकत्वादिस्वरूपमाचार्यस्याकलय्य आलोचयत्येषोऽप्यालोचनादोषः।२। तथा यदृष्टमपराधजातं क्रियमाणमाचार्यादिना तदेवालोचयति नापरमिति तृतीय आलोचनादोषः। वायरत्ति बादरंदोषजातमालोचयति न सूक्ष्मं तनावज्ञापरत्वादेष चतुर्थ आलोचनादोषः।४। सुहमं त्ति सूक्ष्म वा दोषजातमालोचयति न बादरं यः किल सूक्ष्ममालोचयति स कथं चादरं नालोचयिष्यतीत्येवं रूपभाव सम्पादनार्थमाचार्यस्येत्येष पञ्चम आलोचनादोषः। 5 / तथा छण्णमिति प्रच्छन्नं आलोचयति किलमुक्तं भवति / लजालुतामुपदापराधानम्पशब्देन तथालोचयति यथा केवलमात्मैव शृणोति न गुरुरित्येष षष्ट आलोचनादोषः। 6 / सद्दाउलत्ति शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदम् उक्तं भवति / महता शब्देन तथा लोचयति यथान्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः।७। तथा बहुजणत्ति बहुजनमध्ये यद्वालोचनं तद्वहुजनं अथवा बहवो जना आलोचना गुरवे यत्र तत् बहुजनमालोचनं / किमुक्तं भवत्येकस्य पुरत आलोच्य तदेवापराधजावमन्यस्यान्यस्य पुरत आलोचयति एषोऽष्टम आलोचनादोषः। 8 / अव्वत्तत्ति भव्यक्तोऽगीतार्थः / तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तमेव नवम आलोचनादोषः // 9 // तस्सेवीति शिष्योऽयमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तस्सेवी / तस्समीपे यदपराधालोचनमेष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्तं दास्यत्यन्पं वा दास्यति / न च मां खरण्टयिष्यति / यथा विरूपं कृतं त्वयेति बुद्ध्या तदालोचनं तत्सेवी एष दशम आलोचनादोषः // 10 // तदेवमालोचनाविधिर्दोषा उक्ताः / सम्प्रति यथाभूतेषु द्रव्यादिष्वालोचनं तथाभूतद्रव्यादिप्रतिपादयबाह For Private and Personal Use Only