________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारपत्रस्य तृतीयो विभागः। पीठिका नंतरः। // 18 // इयर्थः / पकुव्धीयत्ति कुर्व इत्यागमप्रसिद्धो धातुरस्ति यस्य विकुर्वणेति प्रयोगः / प्रकुर्वतीत्येवं शीलः प्रकुर्वी / किमुक्तं भवत्यालोचकेनालोचितेष्वपराधेषु यः सम्यक् प्रायश्चित्तप्रदानत आलोचकस्य विशुद्धिमुपजनयति स प्रकुर्वीति, / निजवत्ति, निश्चितं यापयति प्रायश्चित्तविधिषु याप्यमालोचकं करोति निर्वाहयतीति यावदिति निर्यापः / अच् प्रत्ययः / अपराधकारी यथोक्तं प्रायश्चित्तं कर्तुमसमर्थो यथा निर्वहति तथा प्रायस्तदुचितप्रायश्चित्तप्रदानतः प्रायश्चित्तं कारयति स निर्यापक इति भावः। तथा इहलोकापायान् परलोकापायांश्च दर्शयतीत्येवं शीलोपायदर्शी / किमुक्तं भवति ? यः सम्यग्नालोचयति प्रतिकुञ्चितं वा आलोचयति दत्तं वा प्रायश्चित्तं सम्यग् न करोति तस्य यदि त्वं सम्यग् नालोचयिष्यसि प्रतिकुश्चितं वा करिष्यसि दत्तं वा प्रायश्चित्तं न सम्यक् पूरयिष्यसि ततस्ते भूयान् मासिकादिको दण्डो भविष्यतीत्येवमिह लोकापायान् तथा संसारे जन्ममरणादिकं त्वया प्रभूतमनुभवितव्यम् / दुर्लभबोधिता च तवैवं भविष्यतीत्येवं परलोकापायांश्च दर्शयति सोऽपायदर्शीति भावः / तथा न परिश्रवतीत्येवं शीलोऽपरिश्रावी / आलोचितं गोप्यमगोप्यं वा योऽन्यस्मै न कथयति सोऽपरिश्रावीति भावः / साम्प्रतमालोचकमभिषित्सुराह-- आलोयंतो एत्तो दसहिं गुणेहिं तु होइ उववेओ। जाइकुलविणयनाणे दंसणचरणेहिं संपन्नो॥३३॥ | खंते दंते अमाईश्र अपच्छतावी य होति बोधव्वे / आलोयणाए दोसे एत्तो वोच्छं समासेणं // 340 // इत ऊर्ध्वमालोचयन्नालोचको वक्तव्यः। स च दशभिर्गुणैरुपेत एव युक्त एव भवति / तुरेवकारार्थो भिन्नक्रमत्वादत्र il // 18 // For Private and Personal Use Only