________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चकातिरेको रात्रिंदिवपञ्चकेनातिरेकोऽत्यर्गलता, एव पञ्चक वृद्धयातिरेकस्तावद्वाच्यो यावत्पञ्चविंशतिः / पञ्चविंशत्यातिरेक इत्यर्थः / इयमत्र भावना-सूत्रे चातुर्मासिकस्य पांचमासिकस्य च या सातिरेकता सा दिनानां पञ्चकेन दशकेन पञ्चदशकेन विंशत्या पञ्चविंशत्या वा द्रष्टव्येति, / साम्प्रतमालोचना) यादृग् भवति तादृशमुपदर्शयतिआलोयणारिहो खलु निरावलावी उ जह उ दढमितो, अटहिं चेव गुणेहि, इमेहिं जुत्तो नायब्वो॥३३७॥ आलोचनाहः खलु निरपलापी / अपलपति गृहतीत्येवं शीलोऽपलापी निश्चितमपलापी निरपलापी, नियमतोऽपरिश्रावीति भावार्थः / यथैव तुरेवकारार्थः / दृढमित्रोऽनन्तरकथानकोक्तः तथैव द्रष्टव्यः / स चाष्टभिर्गुणैरभिवक्ष्यमाणस्वरूपैर्युक्तो ज्ञातव्यः / तानेव गुणानाहआयार व थाहारव ववहारो वीलए पकुव्वीया। निजव वायदंसी, अप्परिसावीय बोधव्वो // 33 // आचारो ज्ञानाचारादिरूपः पञ्च प्रकारः। सोऽस्यास्तीति आचारवान् / प्रा सामस्त्येन पालोचितापराधानांधारणमाधारः। सोऽस्यास्तीत्याधारवान् / आलोचकेनालोच्यमानो यः सर्वमवधारयति स आधारवानित्यर्थः। व्यवहियतेऽपराधजातं प्रायश्चित्तं प्रदानतो येन स व्यवहारः आगमादिरूपश्चप्रकारः। सोऽस्यास्तीति व्यवहारवान् / यः सम्यगागमादिव्यवहारं जानाति, ज्ञात्वा च सम्यक् प्रायश्चित्तदानतो व्यवहरति स व्यवहारवानिति भावः। तथा अपनीडयति लजां मोचयतीत्यपत्रीडकः अालोचकं लज्जया अतीचारान् गोपयन्तं यो विचित्रमधुरवचनप्रयोगैस्तथा कथंचनापि वक्ति / यथा स लजामपहाय सम्यगालाचयेति सोऽपव्रीडक For Private and Personal Use Only