________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir श्री व्यबहारसूत्रस्य तृतीयो विभागः। पीठिकान नंतरः। // 16 // मन्यतरत् परिहारस्थानमालोचयेत् तस्याप्रतिकुञ्च्यालोचयतः चातुर्मासिक वा सातिरेकचातुर्मासिकं वा पाश्चमासिकं वा सातिरेकपाश्चमासिकं वा दद्यात्सातिरेक इति शेषः। यत्प्रतिसेवितं तद् दद्यादिति भावः तद्योगैरेवाध्यवसानैस्तस्य तस्य प्रतिसेवनादालोचनायां वा तत्प्रतिकुचनात् प्रतिकुश्यालोचयतश्चातुर्मासिकप्रतिसेवकस्य पाश्चमासिकं सातिरेकचातुर्मासिकप्रतिसेवकस्य सातिरेकपाश्चमासिकं मायानिष्पन्नस्य गुरुमासस्याधिकस्य दानात् पाश्चमासिकप्रतिसेवकस्य सातिरेकपाश्चमासिकप्रतिसेवकस्य पएमासिकं पण्मासात् परस्य भगवद्बर्धमानस्वामितीर्थे तपोदानस्थासंभवात् / तेण परमित्यादि ततः पाश्चमासिकात् स्थानात् परस्मिन् पाण्मासिके सातिरेके वा पाण्मासिके प्रतिसेवित आलोचनाकाले प्रतिसेविते प्रति कुंचित अप्रतिकुश्चिते वा त एव स्थिताः पण्मासाः प्रदातव्याः / परसस्तपोदानस्य निषेधनात्तदेवं पञ्चमसूत्रमुक्तम् / इदानी षष्ठं सूत्रमाह-एवं बडुसो विनेयब्ध, एवममुना प्रकारेण बहुशोऽपि बहुशः शब्देन विशिष्टमपि सूत्रं षष्ठं वक्तव्यम् / तञ्चैवम्-जे भिक्खू बहुसो चाउम्मासियं बहुसो सातिरेगचाउम्मासियं वा बहुमो पञ्चमासियं वा बहुसो सातिरेगपश्चमासियं | वा एएर्सि परिहारठाणाणं अन्नयरं परिहारठाणं पडिसेवित्ता आलोएज्जा / अपलिउंचिय पालोएमाणस्स चाउम्मासियं वा साइरेगचाउम्मासियं वा पञ्चमासियं वा साइरेगपश्चमासियं वा पलिउंचियं आलोएमाणस्स पश्चमासियं वा सातिरेगपञ्चमासियं छम्मासियं वा तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा इति अस्याक्षरगमनिका पञ्चमसूत्रानुसारतः कर्त्तव्या। नवरं बहुशोऽपि चातुर्मासिके प्रतिसेविते यद्येकं चातुर्मासिकं दत्तं तत् बहुशोपि प्रतिसेवनाया मन्दानुभावकतत्वात् मालोचनावेलायामप्पेकका सर्वेपामालोचितत्वात / एवं सातिरेकरूचातुर्मासादावपि भावनीयम् / // 16 // For Private and Personal Use Only